पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 18 ) प्रतिपत्तिहेतवः " इति तन्न । हस्त्रत्वदीर्घत्यादिप्रतीतेरेव विद्यमानायाः तत्र हेतुत्वात् । अविद्यमानानां अन्यधर्माणां हेतुत्वासम्भवात् । अविद्य मानस्यापि हेतुत्वे वह्नयभाववति पर्वते धूलीपटले धूमभ्रमेण जाताया वह्नुमितेरपि प्रमात्वप्रसङ्गात् । आरोषितधूमजन्यत्वात् । न च वस्तुसता धूमज्ञाने जातत्वात् तवाधि स प्रसङ्गः समान इति वाच्यम् । धूमप्र माया एव प्रमात्मकानुमातेहंतुत्वान् । “‘ज्येष्ठत्वं चानपेक्षितस्य न बाध्यत्वे हेतुः । बाधकत्व । रजतज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् ” इत्यपि न युक्तम् । ज्यायसः शुक्तिज्ञानस्यापि कनीयस रजतज्ञानेन बाधप्रसङ्गात् । पूर्वं यथावत् शुक्तिं गृहीतवतोऽपि पश्चाद् दोषवशेन रजतभ्रमसम्भवान् । एतेनात्र अपच्छे- दन्यायसङ्गमनमयुक्तमिति ज्ञापितम् । न हि प्रमणाप्रमाणयोर्विरोधे परस्य तत्र प्राबल्यमुच्यते । अयं तु प्रमणयोः सतोरेव द्वयोः शास्त्रयोः एकत्र पांवापयण सन्निपाते परस्यैव अनुष्ठापकत्वं न पूर्वस्येति । ‘येऽप्यहङ्कारास्पदमात्मानमास्थिषत तैरप्यस्य-आत्मनः अहङ्कारा स्पदत्वस्य-न तात्त्विकमभ्युपेतव्यम्’ इत्यपि न । जीवात्मा हि न सधै- व्यापी । अपि तु प्रादेशिक एव । शरीरान्तमात्रवृत्तित्त्वात् । अतः ‘अहमिहैवास्मि सदने जानानः' इति यथार्थ एवानुभवः । एवं सति आत्मनः अहङ्कारास्पदत्वं कुतो न तात्त्विकम् । यस्य तु देहातिरिक्तम विवेको नास्ति तदीये ‘अहमिहैवास्मि सदने जनान इति व्यवहारे अहमिति देहस्यैव प्रत्ययात् तदीयमेव प्रादेशिकत्वं भाति । जानान इति देह एव आरोपितं ज्ञातृत्वम् । तथा च भ्रममूले अस्मिन् व्यवहारे शुक्ति रजतव्यवहारवन् न गौण इति युक्तमेवेदमुच्यते । विवेकिनां तु व्यवहरे वस्तुतः जीवात्मनः प्रादेशिकवत् ज्ञातृवाच न गौणत्वप्रसङ्गः । यत्तु “परीक्षका अपि व्यवहारसमये न लोकसामान्यमतिवर्तन्ते’ इति तन्न तथा । यदा परीक्षकः कश्चित् 'देहातिरिक्त आत्मेत्यहं मन्ये' इति प्रति 3