परिच्छेदः त्वम् २५५ प्रतिपादकबहुश्रुतिविरोधेन दुविंज्ञेयपरत्वमिति तदपि न । व्यापकत्व- श्रुतीनां परमात्मवपयत्वात् । प्रकृताया जीवविषयत्वेन विरोधाभावात् । उत्क्रान्तिगत्यागांतश्श्रवणाच्च जीवस्य न विभुत्वम् । अत्राह - उत्क्रमणादीनां बुद्धिगतानां उपते श्रुत्या प्रतिपादनमति | न त्वेवं कल्पने किञ्चित् प्रमाणमस्ति | प्रत्युत एष आत्मा निष्कामति' इति जीवस्यैवो- त्क्रान्तिरभिधीयते । स एनान् ब्रह्म गमयतीति गन्तुरेव च मुक्तिः श्रूयते । नन्वव्यापकस्यैव श्रव्यापकं प्रत्येव गमनम् | ब्रह्म च व्यापकम् । तत् प्रति गमनासम्भवेन गमनपदस्य उपाधिकृतभेदराहित्यपरतया नास्य गतिमुक्ति सामानाधिकरण्यप्रतिपादकत्वांमति चेत्, सत्यमव्यापकस्यैव गमनम् । अत एव गन्तुर्जीवस्यागुत्वं त्र मः | भवता तु व्यापकत्वं सिद्धं कृत्वा गतेरुपाधिगतत्वमुच्यते । तथा च श्रूयमाणगत्यनुपपत्ते र प्यद्वैतम- श्रौत मिति सिद्धर्थात । यच्चाव्यापकं प्रत्येव गमनमिति तद्पीष्टमेव । गतिप्राध्यदेशविशे- बावच्छेदेनैव ब्रह्मप्राप्तेमुक्तित्वात् । गतिश्रवणस्यैवात्र प्रमाणत्वात् । परं ज्योतिरुपसम्पद्येति च गतिपूर्विका मुक्तिरुच्यते । 'तथा विद्वान् नामरूपाद्विमुक्तः परावरं पुरुषमुपैति दिव्यम्' इति च । पूर्वत्र ज्योति- श्शब्देन तेजा विशेष विशिष्टं प्राकृतं रूपं व्यञ्जितम् । इह पुरुषशब्देन तद् दिव्यं रूपं साक्षादुक्तम् । पुरुषमुपैति दिव्यरूप विशिष्टं ब्रह्म प्राप्नोति । एवं मुख्यार्थस्योपपन्नत्वात | “परमपुरुषस्य सर्वत्र सन्निहितत्वेन तं प्रति गमनासम्भवेन उपैतीर्त्यापि पूर्ववदर्थान्तरपरम्” इति दुस्सिद्धान्तानुरोधेन श्रुतिविनाशनं न शोभते । यदपि "उपः विगत्या उपहिते गतिप्रयोग औपचारिक एव । न चैवं कृतहान्य द्यापत्तिः । यद्बुद्ध चवच्छन्नेन येनैवात्मनायतु कृतं तद्वच्छिन्नेन तेनैव ( तदुवच्छिन्ने तस्मिन्नेव तेन ) भोगजननात् । न ह्यात्मनः प्रदेशो- ऽस्ति । यत्तु अवच्छिन्नस्य कर्तुर्भोक्तुर्भेद इति, तन्न । अवच्छेद्यात्मनो-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३७०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति