परिच्छेदः अगुत्वम् २५७ स्वगुणेन अवरोव ततोऽल्पपरिमाण ऽपि भवत त्यर्थात् । यत्तु अवर- शब्दस्य न.स्ति बरो महान् यत इति ब्रह्मानन्दीयं विवरणं तन् श्रुतेः केवलं कदर्शनम् । अवरशब्दस्य तस्मन् दृष्टे परावरे' इत्यादिप्रयोग- दर्शनेन अपकृष्टे निरूढत्वात् । वस्तुतस्तु पूर्वार्धात् समन्वित इति पदं समासघटकमपि 'भीष्म- द्रोणप्रमुखतः सर्वेषां च महीक्षिताम्' इत्यत्र : मुखत इतिवत् बुद्धन्या निष्कृप्य बुद्धेर्गुणेन अन्तःकरणसत्त्व प्रभृतिगुणेन, आत्मगुणेन तद - धीननानाविधार्थविषय मध्यवसायेन च समान्वनो यः प्रागाधिप इति योजनान् आराममात्रत्वे वुद्धिगुणो न हेतुरिति द्रष्टव्यम् । अङ्गुष्ठमात्रः, आराप्रमात्रः, ततोऽवरश्च शास्त्रेषु दृष्टः । परमार्थ- तस्तु 'जीवो भागः स विज्ञेयः' इति श्रुतिः स्वमतं वदतीत्याचार्या ह सृष्ठु भाषन्ते । तन सिद्धमगुर्जीव इति । तमो यद्वत्तइद् विहित इह नाम्बरमणि- विषं यत्तद् विहितममृतं येन भुवने | नयाऽसी लेखन्या श्रुतिमिति निजैश्वयांवतांत- द्रढिम्ने दैत्यारिः स्वयमिदमुदारो विलिखति || इति विशिष्टाद्वैत सिद्धौ जीवेश्वरविभाग नाम द्वितीयः परिच्छेदः
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३७२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति