पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ तृतीयः परिच्छेदः -5:0:3- १. श्रवणादि । श्रेयस्कामैरवगन्तव्यतया शास्त्रैरुपदिश्यमानेषु तत्त्वहितपुरुषार्थेषु त्रिषु तत्त्वं तावत् चिचिदीश्वररूपेण त्रिधा विभज्यते । तत्र अचितो मिथ्यात्वं चिदोश्वरयोरभेदं चाभ्युपेत्य परे अद्वैतसिद्धान्तमातिष्ठन्ते । सोऽयं सिद्धान्तः केवलमाभिमानिकः । सर्वप्रमाणप्रतिकूलत्व त् । अत एव ते सर्वाणि प्रमाणानि हठादेव अन्यथान्यथा नेतुमुद्युञ्जते । स एषां तत्त्वविषयो महान् विपर्ययः इयता प्रबन्धेन न्यरूपि । अथ हित- विषयो निरूप्यते । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यों निदिध्यासितव्यः ः’ इति तावत् परमपुरुषार्थप्राप्त्युपायां विधायते । अत्र तव्यप्रत्ययान्तषु चतुषु पदेषु क्रेन किंविधिरित्यत्र विप्रतिपत्तिः । तत्र परं वदन्ति | आत्मा- परीक्षभ्रमसिद्धत्वात् प्रपञ्चस्य, तत्साक्षात्कारेणैव तन्निवृत्तिर्भवत् । न पराक्षज्ञानेन । प्रमात्मक साक्षात्कारस्य अपराक्ष भ्रमनिवतकत्वं चान्वय- व्यतिरेकाभ्यामेव सिद्धांमति न तत्साधनत्वं शास्त्रण विधेयम् | ज्ञानस्य प्रमाण परतन्त्रत्वेन पुरुषपरतन्त्रत्वाभावाच्च तथा । स च साक्षात्कारः तत्त्वमसीति वाक्येनैव जायते । वाक्येन च न केवलेन । अनि तु श्रव हितानिशयेन । अतः करण दिप्रविष्टं श्रवणम् । तच्च श्रोतत्र्य इति विधीयते । अत एवंदमङ्गि । अस्य फलोपकार्यङ्गे मनननिदिध्यासने मन्तव्यो निदिध्यासितव्य इत्याभ्यां विवीयेते इति । अद्वैतसिद्धान्तानु- रोधेनायं निर्णय इति स्पष्टमेतन् । प्रमाणलवोऽपि नास्ति । तु