परिच्छेदः श्रवणादि प्रत्युत सर्वाणि प्रमाणानि तद्विरोधीनीति स्थितम् । अतस्तदनुसारेण क्रियमाणोऽयं निर्णयोऽप्यनुग्पन्न इति स्वयं सिद्धत्वात् न तत् प्रति विशेषतः किमपि प्रतिपादनीयम् | अपि वैशद्यार्थं विमृशामः । “ येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव भगवान् वेद तदेव मे ब्रूहि” इत्युपक्रमात् मोक्षसाधनं 'आत्मा वा अरे इत्यादिना उप- दिश्यत इति ज्ञायते । तस्मात् मोक्षसाधनं लोकतः प्रानमिति वादी न युज्यते । किञ्च श्रोतव्य इत्यत्र किमुद्देशेन किं विधीयते । आत्मसाक्षात्का- रोद्देशेन श्रवणमिति चेन्न । साक्षात्कारस्यानुपस्थितत्वेन उद्देश्य- त्वेनान्वयायोगात् | द्रुष्व्य इत्यनेन तदुपस्थितिरिति चेन्न । तत्रत्यतत्र्य- प्रत्ययोक्त भावनाविशेषणत्वनैव तदुपस्थितेः श्रवणभावनायामन्वयायो- गान् । पदान्तरकल्पनयाऽन्वय इति चेन्न । आत्मा द्रष्टव्यः श्रोतव्य -इत्यात्मकर्मकभावनान्वये सर्वत्र समाने सति परस्परं गुणप्रधानभावानु- पपत्तेः । न हि समिधां यजति, इडी यजतीत्यत्र परस्परमङ्गाङ्गिमावो भवति । नाव्यरुणया पिङ्गादयेत्यत्र द्रव्यगुरायोः । एतेन द्रष्टञ्चः श्रोतव्य इत्यञ्चवहितपाठरू सन्त्रिधानान् श्रवणस्य दर्शनेन साक्षादन्वयादङ्गित्व- मित निरस्तम् | उभयत्कर्मकत्वस्य तुल्यत्वेन परस्परमुद्देश्य वि धेयभावेनान्वयम्य प्रत्येतुमशक्यत्वात् । किञ्च द्रष्टव्य इति भवदुर्भिमतः साक्षात्कार उच्यत इत्येतदसि- द्धम् । अमृतत्वकामेन आत्मा द्रष्टव्य इति हि वाक्यार्थः । तत्र द्रष्टा मुमुक्षुरन्थः । द्रष्टव्यश्च सर्वान्तरात्माऽन्यः । न चान्येनात्मना अन्य- स्वात्मनः साक्षात्कारः सम्भवति । अन एव व द्वैतनिष्यते। आधिकृतश्च भेद इति चेन्न । एवं वचनस्यान्यवः नेयत्वेन इदमपि प्रनातिनां प्रतिकूत्तमित्येव पर्यव लानात् । द्रष्टव्य इति विवेयदर्शनविशेषप्रतांतेश्च । विधिसरूपोऽयमनुवादः । न तु विविरिति चेन्न । एवं कल्पनस्यैव दोषत्वात् । २५६
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३७४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति