पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः २६२ विशिष्टाद्वैतसिद्धिः । तृतीये अत एव न द्वितीयः । विशिष्टरूपेणान्चयव्यतिरेकादर्शनात् तु इतिकर्तव्यतात्वस्य सिद्धत्वात् करणकोटिप्रवेशाभिधानं तन्मूलकेति- कर्तत्र्यतात्वाभाववचनं च न घटते । करणस्वरूप निष्पादकानां सन्नि- पत्योपकारकाणामपि इतिकर्तव्यतत्वान्। तदुक्तं शास्त्रदीपिकायामपूर्वा- धिकरणे — “एवं प्रकारभेदे सत्यपि सर्वाण्यङ्गानि यागापूर्वनिष्पत्तावनु- ग्राहकाणि भवन्तीत्येकरूपेणेत्यम्भावेन स्वीक्रियन्ते” इति । तत्र्याख्याने सोमनाथीये च - “नन्वेवं साक्षादुपकारजनने व्याप्रमावन् प्रयाजादीनामे- वेत्थम्भावेन स्वीकारः स्यात् । ततश्च तेषामेव विकृतावति देश: स्यात् । न त्ववघातादीनाम् । इत्यत आह - एवमिति । कथं भावयेदिति ह्युपकारजननप्रकारमात्रमेवापेक्ष्यते । न तु साक्षा- दुपकारजननप्रकार एव । ततश्च सत्यग्यवान्तर विशेषे सर्वेषा- मेव'ङ्गानामित्यम्भावेन सङ्ग्रहः । नाराकारकाणःमेवेत्यर्थः ।” इति । एतेन "ननु सन्निपत्योपकारकत्वेऽपि न फलोपकारकमनननिदिव्यासन- रूपाङ्गं प्रति शेषिता । अन्यथा प्रयाजादिकं प्रति वातादिः शेषी स्वात् । " इत्युत्थितायाः शङ्कायाः समाधानं यदुक्तं- विशिष्टयप्रविष्टतया शेषित्त्रे इष्टापत्तः । असाधारण्येन शेषिता तु असाधारणफलोपकारकत्वे स्यात् । इति । तन्निरस्तम् । शङ्कितुर्मीमांसकस्याभिप्रायाग्रहणात् । यद्यवघातानं प्रयाजाः तर्हि तदर्थं पृथगनुष्ठीयेरन् । यथाशक्ति प्रयोगे च प्रधानार्थत- याऽननुष्ठानेऽपि सति सम्भवे अवघातमात्रोद्देशेनानुष्ठीयेरन् । अव घातातिदेशे च तदङ्गतया प्रयाजानामप्यतिदेशः स्यात् । न चेदं सर्वं केनचिदिष्यते । इति शङ्कितुरभिप्रायः | समाधानमपि अमीमांसकोचित - ।