परिच्छेदः श्रवणादि २६३ मेवोक्तम् । न हि प्रयाजादिवर्ज अवघातादमात्र वैशिष्टय यागस्य कदाचिदपि भवति । प्रथमं सकलाङ्गकलापसाहित्यस्य ततः परं सर्वप्र- धानाङ्गसाहित्यस्य चेष्ठत्वात् । प्रयोगविधौ सर्वेषामङ्गानां अविशेषेण - फलभावनायामितिकर्तव्यतात्वेनान्वयात् । पश्चाच तत्र करणत्वेनान्वि तस्य प्रधानयागस्य एषां च परस्परमन्वयात् । तस्माद् विशिष्टयागप्रवि ष्टत्वोक्तिः अवघातशेषित्वे इष्टापत्त्युक्तिश्य अत्यन्तासमञ्जसे । धर्मे प्रमीयमाणे तु वेदेन करणात्मना । इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥ इति मीमांसाभिधानस्य श्रवणापर पर्यायस्य विचारस्य इतिकर्तव्यतात्वे आतमैः सुस्पष्ट मुक्ते सति अत्र इतिकर्तव्यतात्वं प्रतिषिध्य करणत्वं साग्रहं साधयन् अत्रभवान् नूनं तदश्रुतपूर्वी | अभिनिवेशाति- तत्वमहिम्नाऽत्यन्तं विस्मृतवान् | यच्च द्वैतिनामाक्षेपमनूच समाहितम्- ननु शब्दसामर्थ्यरूपेण लिङ्गोन ततस्तु तं पश्यते निष्कलं ध्यायमानः' इति वाक्येन फलसम्बन्धात् प्रकरणेन च श्रवणा- दिकं निदिध्यासने सन्निपत्याङ्गमिति चेन्न । निदिध्यासनपदस्य 'बर्हिर्देवसदनं दामि' इत्यादाविव साक्षात्काररूपफलसम्बन्धे न शक्तिरिति शब्दसामर्थ्याभावात् । वाक्येऽपि योग्यताबलात् श्रवणमेवाध्याह्रियते । तथा च तच्छ्रवरणात् ध्यायमानो निष्कलं ब्रह्म पश्यतीत्यनुकूलार्थस्यैव पर्यवसानात् इति तदप्यनुपपन्नम् । वादिवाक्यस्य यथावदर्थानवगमात् । लिङ्गेनेत्यस्य फलसम्बन्धादित्यत्रान्वयस्याविवक्षितत्वात् । वाक्येनेत्यत्र चकाराश्रव- गात | प्रकरणेन चेत्यत्र तत्रवणेनोत्तरत्रैवान्वयप्रतीतेः। यल्लिङ्गं, यच्च वाक्यावगतफलसम्बन्धाधीनं प्रकरणं, ताभ्यां श्रवणादिकं निदिध्यासने सन्निपत्याङ्गमिति हि वाक्यस्यार्थः । श्रोतव्य इति शब्दसामर्थ्यात् श्रवण-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३७८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति