पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ विशिष्टाद्वैतसिद्धिः तृयीयः स्थाया इह प्रस्तावात् । एवं विशुद्धसत्त्वपदस्य निष्काम कर्माधीनचित्त- शुद्धिपरत्वाश्रयणं षष्ठो दोषः । निष्काम कर्मानुष्ठानस्य विविदिषार्थत्वा- भ्युपगमात्। श्रवणात् प्राक्तनी हि विविदिषा | तस्या अपि प्राक्तनी चित्तशुद्धिः निष्काम कर्मानुष्ठाननिष्पन्ना | तस्या इह कीर्तनं कुत इति । तच्छब्दस्य स्वार्व्याहतपूर्वपठितसत्त्वशुद्धि परामर्शित्वे सम्भवति तदना- श्रयणं सप्तमो दोषः । श्रवणस्य दर्शनसाधनत्वेनान्वयायोग्यत्वं चापरो दोषः । कस्तर्हि मन्त्रार्थ इति चेत्, उच्यते । पूर्वार्धे तावन्नास्ति विशेषः । किं तर्हि साधनमिति चेत् तदाह – ज्ञानेत्यादिना | तु किन्तु ध्यायमानः मुमुक्षुः मोज्ञार्थं ध्यानं कुर्वन पुरुषः ज्ञानप्रसादेन ज्ञानस्य सत्यं ज्ञान- मिति प्रसिद्धस्य ज्ञानस्वरूपस्य 'बुद्धिर्ज्ञानमसम्मोहः” इत्युक्तरीत्या ज्ञान- प्रवर्तकस्य वा भगवतः प्रसादेन ध्यानशब्दाभिधेयभक्तिप्रसूतेनानुग्रहे विशुद्ध सत्त्वः विमलान्तःकरणः साक्षात्कारयोग्यतासम्पन्नचित्तः ततः भगवत्प्रसादाधीनोक्तयोग्यतासम्पत्त्यनन्तरं तं पश्यति । मुक्तन्यपायसा- क्षात्कारसिद्धौ भगवदनुग्रहः प्रधानहेतुरिति भावः । "तेषामेवानुकम्पार्थमहमज्ञानजं तमः | नाशयाम्यात्मभावस्थी ज्ञानदीपेन भास्वता ||” इति गीतावचनमिहानुसन्धेयम । तदेवं ध्यानस्य फलवत्त्वात् लिङ्गप्रकर- णाभ्यां श्रवणादेर्ध्यानाङ्गत्वं परैरुच्यमानं न दूषणार्हमिति ज्ञेयम् । यदपि "आनन्तर्यमचोदना" इति तृतीयप्रथमस्थन्यायेन द्रष्टव्यः श्रोतव्य इति सन्निधानमन्वये न नियामक मिति प्रतिपक्ष्युक्तिनिराम्रीय व्याख्यात्रा उक्तम्- तत्र हि हस्तावनेजनस्य कर्तृसंस्कारत्वात् कर्तुश्च प्रयोगान्व- यित्वेन करिष्यमाण सर्वक्रमार्थत्वं लिङ्गप्रकरणाभ्यां युक्तम् । प्रकृते तु प्रकरणस्य फलान्वयात् पूर्वमसिद्धत्वात् लिङ्गस्य च