परिच्छेदः श्रवणादि २६७ मननादौ सत्त्वेऽपि सन्निधानसहकुतलिङ्गस्य बलवत्वेन श्रवणे दर्शनान्वर्यानयामकत्वसम्भवात् " इति, तदपि न चारु | नहि हुस्तावनेजनस्य कर्तृसंस्कारत्वात् लिङ्ग- प्रकरणप्रवृनिस्तत्रोक्ता । कर्तृसंस्कारत्वेन करिष्यमाण सर्वार्थत्वप्रतीना- वपि सन्निधिरूपस्थानान् अनन्तरपठितांलपराजिस्तरणमात्राङ्गत्वमिति प्राप्ते प्रचलाभ्यां लिङ्गप्रकरणाभ्यां स्थानबाघानातं सर्वार्थत्वमिति सिद्धान्तकरणान् । लिङ्गप्रकरणविरुद्धमानन्तर्यममा. मित्येव तत्र निर्णयात् । “आनन्तर्यमचोदना” इति हि सूत्रम् | अबोदना अप्रमाण- मित्यर्थः । स्वत एव तिङ्गप्रकरणे सन्निव्यपेक्षया प्रत्रले । अतस्ताभ्यां सन्निधेर्बाधात् सर्वार्थध्वम् | युक्तचन्तरं च सूत्रोक्तम् - 'वाक्यानां च समाप्तत्वात्' इति । पृथक् पृथक् वाक्यस्य समाप्तत्वात् परस्परमन्त्रयो नास्तीत्यर्थः । प्रकृते च 'येनाहं नःमृतास्थांकं तेन कुर्यान्' इति मोक्ष- साधनस्य प्रक्रान्तत्वात् दर्शनादीनां च तत्वाधनत्व योग्यत्न लिङ्गसत्त्वात् द्रष्टव्यः श्रोतत्र्य इति प्रत्येकं वाक्यसमातेच हस्तावनेजनन्यायेन सन्नि- धानकृतः परस्परान्वयो नास्त्येव । द्वैतिभिरुक्तरीत्या तु निदिध्यासनस्य 'ततस्तु तं पश्यते निष्कलं ध्यायमान.' इत्यनेन फऩसम्बन्धावगमेन प्रकरणसत्त्वात्, श्रवरणमननयो- ध्र्ध्यानस्य च मिथ उपकार्यो कारकभावयोग्यत्वेन तिङ्गसत्त्वाच्च श्रवणस्य ध्यानाङ्गत्वमेव, न तु सन्निधिना दर्शन ङ्गत्वमिति द्रष्टव्यम् । नच आत्मकर्मकभावनान्वये सर्वेषां समाने परस्परमङ्गाङ्गिभावो न घटत इति त्वयैवोक्तत्वादिदमयुक्त निति वाच्यम् । आरुण्यबदुपकारक एवाङ्ग- त्ववाचोयुक्तेः । यद्वा अस्य दोषस्य भवत्पक्षेऽपि सत्वेन सःम्यान् । 'यश्ची- भयोः समो दोषः' इति न्यायान् । यदुक्तं निदिध्यासनस्य फत्तसम्बन्धात् पूर्वं प्रकरणं नास्तीति तन्न । पश्यते ध्यायमान इति वाक्यान्तरेण दर्शने विनियोगस्य दर्शितत्वात् । 'तत्रार्थान्तरमुक्तमिति चेन्न | तस्य निरस्तत्व त् । तन्मतानुसारेण प्रक-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३८२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति