पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः तृतीयः यदुच्यते “स्वर्गेच्छा स्वर्गंसाधनीभूतायां यागादिकृतौ न कारणम् । किन्तु यागादिचिक्रीति, तत् विदुषां विस्मयावहम् । स्वर्गकामनचैव हि पुरुषः तत्साधनबागकृतिमारभते । स्वर्गेच्छायास्तत्र कारणत्वं कथं निराकर्तुं शक्यते । अत एव स्वर्गस्य साध्यत्वमपि दुरपह्नम् । परन्तु तत्र प्राप्यत्वेन साध्यत्वम् । न तूलाद्यत्वेन । यद्यपि यागचकीर्षया यागो जन्यते तथापि तस्याश्चिकीर्षायाः स्वर्गेय्याप्रयुक्तत्वात् तज्जन्येन यागेन यजमानस्य स्वर्गप्राप्तिसम्पादनाच्च स्वर्गस्य साध्यत्वं न विहन्यते । इदन्तु साध्यत्वं प्रयोजनत्वपर्यवसायि | ज्ञानस्य तु यागादिवदुत्पाद्यत्वात् विधेयत्वं न काचिदनुपपत्तिः । २७२

स्वादेशप्रवृत्तपुरुषत्र्यापारनिष्पाद्यत्वेन पुरुषतन्त्रम् । अत एव ‘पत्नी आज्यमवेक्षते' इति विधिः | चाक्षुषज्ञानेनज्यं संस्कुर्यादिति मुख्यवृत्त्यैव बोधः । अन्यत् सर्वमर्थतो लभ्यम् । यदि चैवं नेष्यते यागस्यापि त्रिविर्न स्यात् । देवतोद्द शेन द्रव्यत्यागस्य ज्ञानरूपत्वात् । ब्र च तत्र आवृत्त्यादिकमाश्रित्य कुकल्पना काचित् सुकरा | यत् सर्वथा पुरुषतन्त्रं न भवति, गोरारुण्यं पशोरकत्वं इत्यादि, तदपि उपादेव- द्रव्यगतत्वेन विधेयमिष्यते । तथा सति किं वक्तव्यं ज्ञानं प्रति यत् पुरुषप्रयत्नाधीनोत्पत्तिकमेव । यदुक्तं नैतत् कर्तुमकर्तुमव्याकर्तुं वा शक्यते । तस्मान्न पुरुषतन्त्रमिति, तदपि नास्ति । इच्छया विषयाणां द्रष्टुं, अद्रष्टुं, दूरे स्थित्वा स्थूलं, सन्निधाय विशदं च द्रष्टुं शक्यत्वात् । तदेवं ‘स्वप्नान्तं मे सोम्य विजानाही तिचत् ज्ञानस्य विधेयत्वेऽनुपपत्ति- लेशविरहात् 'ब्रह्मविदाप्नोति परम्' 'ब्रह्म वेद ब्रह्मैव भवति' इत्यादी जा परम हितोपदेशिनीनां श्रुतीनां कदर्शनदुर्दशा नानुभवनीया परैरिति पश्यामः । विहितं तु ज्ञानं छागपशुन्यायेन विशेषे उपसंहियमाणं ध्यानो- पासनादिव्यपदेशभाक् भक्तिरूपं भवतीत्यस्माकं दर्शनम् । श्रवण- मननयोंरर्थप्राप्तत्वादविधेयत्वं चेति ।