परिच्छेदः शाब्दापरोक्षम् २७३ ननु ज्ञानस्य विधेयत्वसम्भवेऽनि मिथ्य भूतस्य वस्तुनः तत्त्वसा- क्षात्कार निवर्त्यत्वस्य लोकसिद्धत्वान्न विधेयत्वमिति चेन्न । बन्धनिवर्तको ब्रह्मसाक्षात्कारः स्वस्य भवितुमर्हतीत्यस्य विधि विना ज्ञातुमशक्यत्वात् । विध सति हि अस्मत्कृतिसाव्यत्वबोधनद्वारा तत्सम्भवं अस्माकं सः ज्ञापयेत् । अन्यथा अशक्यत्वज्ञानान्न प्रवृत्तिः स्यात् । स्वप्रयत्नं विनैव सिद्धयेदिति ज्ञानाद्वा । अतः “साधनत्वावगतिमात्रेण प्रवृत्त्यभावात् । साधनत्वमात्रं हि यागस्य फलं प्रत्यवगम्यते । तत् किं दैवनिर्मितम्येव निदाघम- मयवर्तिमध्यन्दिनतपनातपतप्ततनोवि मेघपुष्पगर्भ मेघसङ्गस्य सन्तापोत्सादऋत्वं कर्मणः फलजनकत्वं, उत अन्यकृतस्य प्रपा- दिवत्, भोजनादिवद्वा स्वयत्ङ्कृतस्येति विशेषानवगमान्न ध्रुव- र्तेत । विधिस्तु प्रवर्तकस्वभावात् कतुरेवेदं फलं साधयतीति कल्पयतीति भवत्यनुष्ठापकः ।" इति न्यायरत्नमालायां पार्थसाराथमिश्रोक्तरीत्या साक्षात्कारस्थापि विधे-- यत्वमवश्यं वाच्यम् | अन्यथा कृत्स्नं वेदान्तशास्त्रं अप्रवृत्तिकर मनर्थकं स्यादिति विभाव्यम् । ३. शाब्दापरोक्षम् । अथ यच्छब्दादपरोक्षज्ञानात्पत्तिमाहुः तदनुपपन्नमिति प्रदर्शयामः । शब्दस्य परोक्षज्ञानजनकत्वं सर्वसम्प्रतिपन्नम् | अनुमानवत् शब्दस्या- य्यं स्वभावः । एतव्यतिलङ्घनमेव तावत् पर्याप्तं परमतस्यानादरणी- यत्वं प्रत्याययितुम् । तथापि तदुक्तीनामत्यन्तासामञ्जस्यादपि तथेति प्रदर्शयतुमियमस्माकं प्रवृत्तिः | शब्दस्यः परोक्षज्ञानजनकत्वे "तद्धास्य विज्ज्ञों” 'तमसः पारं दर्शयति' इत्यादिकं, 'वेदान्तविज्ञानसुनिश्चि- तार्थाः' इत्यादिकं च मानमित्याह ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३८८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति