२७४ विशिष्टाद्वैतसिद्धिः निरन्तराभ्यासवशेन यच्चिराद् बभूवुरेते परिशुष्कचेतसः । घृणां विना घ्नन्ति ततः पदे पदे श्रुतीर्यथा सत्त्वकुलानि सैनिकाः ॥ तृतीयः कथन्नु भोः तद्धास्य विजज्ञावित्यस्य तत्र मानत्वम् ? यद्युच्यते ‘अपरोक्षज्ञानस्य पित्रुपदेशमात्रसाध्यत्वोक्तेः' इति तदयुक्तम् । विज्ञाना- तेरपरोक्षज्ञानवाचित्वाभावात् । ज्ञानसामान्याभिधायित्वात् । प्रकरणाच्च उपदेशजन्यस्य परीक्षज्ञानस्यैव प्रतीतेः । 'स्वप्नान्तं मे सोम्य बिजानीहि इत्यत्र 'स्वप्नान्तविषयकं अपरोक्षज्ञानं ते भवतु' इति न ह्यर्थ: । 'भूय एव मा भगवान् विज्ञापयतु' इति श्वेतकेतोः प्रार्थनमसदावर्त्यते । न चात्र दर्शयत्वित्यर्थः । साक्षात्कारावृत्त्यसम्भवात् । उपदेष्टव्यस्य तत्त्वस्य एकस्मिन विशेषे पित्रा उपदिष्टे पुनर्विशेषान्तर जिज्ञासया श्वेतकेतुरुत्तरो- त्तरं पृच्छति । 'पुरुषं सोम्योत हस्तगृहीतमानर्यान्त' इत्येतद्दृष्टान्तेन निदर्शिते विशेषे श्रुते श्वेतकेतुस्तृप्ती बभूव । पुनः प्रश्नं नाकरोत् । तदेतद् व्यञ्जयन्ती श्रुतिराह–‘तद्धास्य विजज्ञो' इति । तत् 'उत तमादेश मत्यु - पक्रान्तं बहुना विस्तरेणोपदिष्टं तत्त्वं अस्य पितुः सकाशात् विजज्ञों विशदं ज्ञातवान् श्वेतकेतुरित्यर्थः । अत्र साक्षात्कारस्य कः प्रसङ्गः ? यत्त्वत्र ब्रह्मानन्दव्याख्यानम् – 'तत् तस्मात् तत्त्वमसीत्याद्युपदेशान आत्मानं विज्ञातवान्' इति तत् प्रचलप्रकरणोपस्थित सद्र पार्थपरामर्शिनः तच्छब्दस्य सन्निहितवाक्य रामशित्वायांगान् विभक्तिलोपकल्पने' अध्याद्दार कल्पनेच प्रमागाभावान् अस्येति ष ठचन्त पदेनैव पित्रुपदे -शस्य बोधनेन तस्य पुनः पदान्तरेणापस्थापनस्यानपेक्षितत्वाञ्चायुक्तम् । , अध्यायमध्ये सप्तमखण्डान्तेऽपि 'तद्धास्य विजज्ञौ' इति श्रूयते । न हि तत्र साक्षात्कारार्थो भवतामपीष्टः । उपदेशस्य सावशेषत्वात् । तथा सति तदेक अन्तिमवाक्ये को विशेषः, येन साक्षात्कारोऽर्थ: स्यात् ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३८९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति