२७६ विशिष्टाद्वैत सिद्धिः तृतीय कारो वा । अतः शक्त्या लक्षणया वा हशिरत्र साक्षादुपदेशजन्य- साक्षात्कारस्य न बोधकः | तस्मादिनि वाक्यं न भवतां हस्तावलम् दातुमीष्टे । यदपि चरमवाक्यस्य चरमज्ञानपरत्वे औचित्यमिति तत् क्लृप्तऋमा- विरोधे युज्येत । श्रवणमनन निदिध्यासनानां हि क्लृनः क्रमः । तत्र श्रवणानन्तरं श्रयमाणं दर्शनं श्रवणसमनन्तरोत्पन्नपरोक्षज्ञानरूपं गौणं बा आश्रयणोयम्, व्यवधानसहूं मुख्यं वा । यदपि आचार्यवान पुरुपो वेद' इत्यनेन आचार्यो देशजज्ञानत्त्वमुक्त्वा तस्य तात्रदत्यादिना तज्ज्ञानादेव कैवल्योत्तेरपि शाब्दापरोक्षसिद्धिर्गित, तदपि न । उक्तयुक्ते- रेव | अचार्यवत्त्वं हि उपदेशसम्वन्धेनैव । तथा चाचार्याल्लव्धोपःशः पुरुषः मननाननर निदिध्यासनेन सद्वंद | तस्य शरीरपातानन्तरं मोक्षो भवतीत्यर्थः । न हि वंदनाननुपदं मुक्तिरिहोच्यते । तस्य न चिरमित्य- श्रवणात् । अपितु 'तावदेव चिरं यावन्न विमोदये' इति श्रवणात् । अतो वेदनान्तरं शरीरान्निष्क्रमणावधि ब्रह्मसम्पत्तिरूपापवर्गे वलम्ब- प्रतिपादनेन भवत्सम्मतसद्योमुक्ति फतक साक्षात्कार इह न प्रतिपाद्यत इति स्फुटमवगमात् भवतां न परं नानुकूलं अपि त्वत्यन्त प्रतिकूलमिदं बायमिति विभाव्यम् । वेदान्तविज्ञानसुनिश्चितार्था इत्यत्रापि शाब्दापरोक्षसिद्धि प्रत्याशा न कार्या । बह्रथलावारणमु सगं नामाश्रित्य सर्वलोकविरीतं सिद्धान्तं स्थापयितुयुञ्जानानां भवतां वैचक्षण्य लोकोत्तरम । विज्ञानमत्यत्र बीत्युपसगरण ज्ञाने विशेषविषयत्वस्य लाभात् सुपदेना परोक्षत्वोतिरि विप्रलम्भोत्तिः । सुपदं हि स्वविशेष्यं यादृशं प्राप्तं तादृश एव तस्मिन् अतिशयं कञ्चन बोधयितुं शक्लंति । न तु जातिं विपर्यासयतुम् । न हि सुगौरित्युक्ते गोत्वस्य गोपदेनैव प्रात्वात् सुपदमश्वत्वं वक्तीति युक्तम् । वेदान्तानां विचारात्मकं यद् विशिष्टं ज्ञानं तजनितः तत्त्वहित पुरुषार्था-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३९१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति