२७८ विशिष्टाद्वैतसिद्धिः द्वितीयः जायमानत्वात् । अहमंशे प्रत्यक्षत्वेऽपि दशमत्वांशे परोक्षत्वात् । ज्वालै- क्यप्रत्यक्ष भ्रमस्य'नुमानबाध्यत्वस्य भवतैव साधितत्वेन तदर्थं शाब्दाप- रोक्षस्यान्ङ्गीकर्तव्यत्वाच्च । अन्धकारस्थितस्यान्धस्य दशमस्य स्वदश मत्वाभावभ्रमश्च दुर्वचः | इतरान् नव गायित्वा स्वस्य दशमत्वं न जानातीति तदज्ञानमेव सम्भ्रमस्य हेतुः । न तु नाहं दशमोऽस्मीति भ्रमः | स्वकीयदशमत्वोपस्थितिसत्त्वासत्त्वाभ्यां व्याघातात् । . 6 तं त्वौपनिषद पुरुषं पृच्छामोत्युपनिषद्वाक्ये औपनिषदमित्यनेन शब्दस्य साक्षात्कारकरणत्वं बोध्यत इत्यपि शिलाधेनु दोहनम् । शास्त्रयो- नित्वाधिकरणन्यायेन उपनिपदेकगम्यत्वं हि औषत्वम् । तत्र पुरु- षसाक्षात्कार स्योपनिषत्करणकत्वं न लभ्यते । यतो वाची निवर्तन्त इत्येतन्न ब्रह्मो वाच्यत्वनिषेधपरमिति पूर्वमेवोक्तम् । अतः “अयं निषेधः शक्तचा बोधक्त्वाभावपरः । औपनिषदमिति विधिस्तु वृत्त्यन्त रेण साक्षात्कार्यःवपरः” इति व्यवस्थाकरणं जुगुप्सावहम् । 'चकितम- भिधत्ते श्रुतिरपि' इतीदं न वृत्तिविषयम् । अपितु महिम्नोऽपरि- च्छेद्यत्वपरम् । तु मनसैचानुद्रष्टव्यम्, मनसा तु विशुद्धेन, इत्यादिभिः श्रावितं मनसो ब्रह्मदर्शनकरण्त्वं दुरपह्नवम् । 'यन्मनसा न मनुते' इति न मनसः कर- गत्वनिषेधपरम् । किन्तु ब्रह्मणो दुर्ग्रहत्वपरम् । अन्यथा 'मन्तव्यः' इत्यस्यानुपपत्तेः ः। यत्तु मनसः करणत्वे अधिककल्पना | शब्दस्य कर त्वे त्वल्पकल्पनेति विशेष इति तदपि न । मनसोऽन्तःकरणत्वेन सुप्रसिद्धत्वात् । मनष्षष्ठानीन्द्रियाणि, इन्द्रियाणि दशैकन, इति स्मृतेश्च । करणत्वस्य तृतीयया विभक्तिःश्रुत्याबोधितत्वात ज्ञानेन्द्रियत्वेनैव गणितत्वाच्च मनोविषये न किचित् कल्पनीयम् | शब्दस्य तु अपरोक्ष- ज्ञानकरणत्वं अदृष्टमश्रुतं कल्पनीयमिति इदमेवानादरणीयम् । तत् सिद्धं न श्रवणमङ्ग | नाविधेयः साक्षात्कारो मुक्तिसाधनम् | न शब्दस्य
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३९३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति