पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्थः परिच्छेदः १. मुक्तिः । अथ मुक्तिविमर्शः । तत्राद्वैतमते बन्ध एवःनुपपन्न इत्वोचाम । तथा सति मुक्तेः कः प्रसङ्गः | जगदुपादानत्वेनाभिमता जडा | न • तस्याश्चेतनानाधिष्ठितायाः प्रवृत्तिः सम्भवति । स्वरूपतो मिथ्यास्वाच्च . शुक्तिरजतादेरिव नितरां प्रवृत्तिशून्यता । चैतन्यं च निर्विकारम् । अतः स्तस्यापि न प्रवृत्तिः । कथं सृष्टिर्बन्धो वा । न चास्या अनुपपत्तेरनादि- त्वेन परिहारः | कदा बन्धोपक्रम इत्याक्षेपस्य तेन परिहर्तव्यत्वावा। तेजस्तिमिरयोः कथं सम्पर्क इति चोद्यस्यानादित्वं न परिहारः । न च शुद्धं यद्यपि प्रवृत्तिशून्यं तथाप्युपहितं प्रवृत्तिक्षममिति वाच्यम् । उपधा- नस्त्रैवान्यतरप्रवृत्तिमन्तरा दुर्घटत्वात् । उभयोरपि च प्रवृत्त्यक्षमत्वात् । उपहितेऽपि प्रवृत्तिहेतुर्विशेषों नास्ति । न हि दीपगर्भस्य अथवा आकाश- गर्भस्य घटस्य तेन विशेषेण प्रवृत्तिर्भवति । अस्य चांद्यस्य यैः कैश्चिद द्वैतिभिरुदीरितः । नाद्यावघि परीहारो वयते न कदाचन ॥ इदं सविस्तरमुक्तं प्राक् । एवं बन्धस्यैवायोगात् ततो मुक्तिवादनँया नास्त्यवसः | का च मुक्तिः ? अविद्यानिवृत्तिः । सा च चरमवृत्त्यु. पलक्षित आत्मैवेति चेत् नैतद्युक्तम् । मुक्तो ह्यात्मा । न तु मुक्तिः । ‘मुक्तः प्रतिज्ञानात्' 'आत्मा प्रकरणात्' इति भगवता वादरायणेन सूत्रितत्वात् । • तथा च मुक्तस्य मुक्तित्वाभिवानं दुस्सिद्धान्त परित्राणनिर्बन्धकृतमिति