परिच्छेदः मुक्तिः २८९ इदमेव पयाप्तं भवत्सम्मता मुक्तिर्न मुक्तिरिति तत्त्वमिदं प्रतिष्ठापयितुम् । असाध्यत्वाद्ध्यात्मस्वरूपस्य न मुक्तित्वम् | न चोपलक्षणसाध्यत्वेन तस्य साध्यत्वम् । चौद्यस्यासमाधानात् | उपलक्षितमात्मस्वरूपं मुक्ति- रित्यःस्थीयते । तस्थासाध्यत्वं चोद्यते । तद्भ्युपगम्यैव उपलक्षणसाध्य- स्वमात्रमुच्यते । इष्टमेवेदं परेषाम् । तथा च साध्यत्वाभिमता मुक्तिः असाध्यात्मस्वरूप न युक्ताऽभ्युनगन्तुमिति परेषामाक्षेत्र स्तिष्ठत्यैव न चौपचा रकं मुक्तेः साध्यत्वं, येन घटाकाशोत्पत्तिन्यायेन साध्योपलक्षणां- पलक्षितत्वं साध्यत्वमित्यूरीक्रियेत | तदनयाऽप्यनुपपत्त्या आत्मस्वरूपस्य मुक्तित्वाभिधानं न सङ्गच्छते । यपि कण्ठस्थितकाञ्चन चायन प्राप्यत्वात् साध्यत्वमिति, तद्- व्ययुक्तम् । वैषम्यात् । तत्र पुरुषः स्वकण्ठस्थितं काञ्चनं विस्मृत्य विनाशबुद्धया परिभ्रान्तः परैः प्रतिबोधितः पूर्वमेव प्राप्तमपि तदानीं प्राप्त- मिव मन्यते । प्रकृते क एवं मन्यते । -- 'नाहं प्रपञ्चः । अयमहमस्मि' इति । आत्मनीऽज्ञातत्वात् । तस्मादनयाऽपि विधया साध्यत्वं नास्ति । अपि च उपलक्षणभूनायाश्चरमवृत्तेरपि साध्यत्वं भवद्भिरेव निराकृतं पुरुषतन्त्रत्वाभावेन विधेयत्वं निराकुर्वद्भिः । तद्नुकूलव्यापारस्य साध्य- त्वात् तस्या अपि साध्यत्वमिति तर्हि आज्यावेक्षणवत् तदेव साध्यत्व- मादाय तस्या विधेयत्वमस्तु ! तथा च श्रवणमध्यङ्गमेवास्तु, नाङ्गि | किञ्च विद्यतो मुक्तिर्हि मुख्यो मुक्तिशब्दार्थः । तेनाविद्यानिवृत्तिरेव मुक्तिशरीरे निवेश्या । न तु चरमवृत्तिः । मुक्तिसाधनत्वात् । नहि स्वाध्यसाधनयोरैक्यं युक्तम् । किञ्च अविद्यानिवृत्तेर्मुक्तित्वे को दोषः । तस्था आत्मस्वरूपरूपत्वेऽसाध्यत्वेन तदुद्देशेन प्रवृत्त्यसम्भवः । तदति- रिक्तायाः सत्यत्वे अद्वैतहानि: । मिथ्यात्वे मुक्तेरविद्या परिणामत्वमिति चेत् तर्हि चरमवृत्त्यनन्तरं श्रविद्यानिवृत्तिर्भवति वा नवा । आधे उक्ता दोषास्तदुवस्थाः । अन्त्ये मुक्तिरेव मास्ति । अविद्याऽनुवृत्तेः । १६
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३९६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति