२८२ चतुर्थः ननु अविद्यानिवृत्तिस्तद्विरोधिचरमवृत्तिरूपैवेति न काचिदनुपपत्तिरिति चेन्न । उक्तोत्तरत्वात् । साधनरूपत्वान्न साध्यात्मकत्वं युक्तमिति ह्युक्तम् । अन्यथा चरमवृत्तों जातायामप्यविद्या न निवर्तेत । जातायास्तस्या एव तन्निवृत्तित्वात् । न ह्युत्पन्ना पुनरुत्पाद्यने । चरमवृत्त्युत्पत्त्यनन्तरं अविद्याध्वंसः । अयं तद्नतिरिक्तश्चेत् पश्चादुत्पन्न न स्यात् । पश्चादु- त्पन्नश्च तदात्मको न भवितुमर्हति । नन्वयमुत्पद्यमानः तदात्मैवोत्पद्यत इति चेत् कोऽभिप्रायः ? किं तत्सजाती यव्यक्तचन्तरात्मेति उत तद्वयक्तयात्मैवेति । नाद्यः | अनभ्यु- पगमात् | नान्हवः | उत्पत्त्य सम्भवदोषताद्वस्थ्यात् । न हि सम्भवति पूर्वमुत्पन्ना व्यक्तिः षुनरप्युत्पद्यत इति ! न खलु कश्चिदाचक्षीत उत्तर- क्षणोत्पन्नज्ञानध्वंसः पूर्वक्षोन्नज्ञानरूप इति । ज्वरनिवृत्तिरौषध- रूपेति वा । यद्यप्यभावस्य भावरूपत्वमिष्यते तथाऽपि कालभेदे नेदं सम्भवि । न च नैयायिकैः कैश्चित् उत्तरोत्पन्नसंयोगध्वंसस्य पूर्वोत्पन्न- विभागरूपत्वमङ्गीकृतम् । तद्वत् कृतेऽपीति वाच्यम् | तस्याप्युक्तरीत्या युक्तत्वात | अन्यथा लाघवमात्रनिष्ठैः घटपटादीनामप्यन्योन्यात्मकत्वा- ङ्गीकारापत्तेः । वस्तुतस्तु संयोगनाशातिरिक्तो विभागो नेष्टव्य इति स्पष्टं तत्त्वमुक्ताकलापे । तस्मादविद्यानिवृत्त्याकारा चरमवृत्तिमुक्ति- रिति पक्षो न घटते । → किञ्च चरमवृत्तिनिवृत्तिर्यथाऽधिकरण, स्वरूपा तथा अविद्यानिवृत्ति - रपि कुतो न भवति । साध्यत्वानुपपत्तेरिति चेत् किमस्मदिच्छानुसारेण बस्तुस्वभावविपर्ययो भवेत् येनैवमुच्यते । किं नाम उष्णो न हस्तप्राय इति वह्निः शीतोऽङ्गीक्रियेत । प्रतियोग्यधिकरणरूपो वा ध्वंसः, तत्स- मानाधिकरणभावान्तररूपो वा, अतिरिक्तो वेति त्रयः पक्षाः । तत्राद्याव- लम्बने साध्यत्वानुपपत्तिः । द्वितीयः तत्समानाधिकरणभावान्तराभावा- दसम्भवी अविद्यानिवृत्तावात्मनोऽद्वितीयत्वात् । तृतीये त्वद्वैतभङ्गः । विशिष्टाद्वैतसिद्धिः
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३९७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति