पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः चतुर्थः 1 यथार्यानुभवेन स्वस्य पूर्वोत्पन्नं प्रत्यक्षं भ्रमत्वेनाध्यवस्यति । भातं रजतं च मिथ्यात्वेन। यो यथार्थानुभवः शुक्तिमात्रविषयः, नतु पूर्वं रजतत्वेन गृहाते तत्र रजतत्वाभावावगाही तेन पूर्वभातरजतमिथ्यात्वं न सिद्धयांत । यत्र सत्यमेव रजतं येन दृष्टं तत्रैव पश्चात् रजतस्थाने परमार्थशुक्ति पश्यतस्तस्य पूर्वानुभवस्य वा तद्विषयस्य वा बाधा- भावात् । मिथ्यारजनदर्शनानन्तरमपि कालान्तरे तामेव शुक्तिं शुक्तित्वेन पश्यतः इयमेव शुक्तिः पूर्वं मे रजत वेनामादिति स्मरणाभावे पूर्वानु- भवस्य वा तादूषवस्य वा बाधाभावाच्च । तस्मात् शुकिं तत्त्वन पश्यन् इदमेव वस्तु पूर्व मे रजतत्वेनाभासीदिति योऽनुसन्धत्त तस्यैव पश्वात्त. नेन यथार्थज्ञानेन प्राक्तनाज्ञाननिवृत्तिर्भवतीति निश्चप्रचमेतत् । तथैवा- त्रानि यदि मुमुक्षुः निष्पन्नापायः यथावस्थितमात्मानं पश्यन् 'इयन्तं कालमहं अत्मानमध्यथाऽन्यथा गृहीतवानासम् । इदं तु मे पारमार्थिक स्वरूपामत्यनुसन्दधीन तहि तस्यानेन यथार्थज्ञानेन पूर्वाज्ञाननिवृत्ति - भ॑वेत् । न च कश्चिदस्ति । तत्र यद शुद्धचिन्मात्रांवषया काचन वृत्तिर्भवति, कमं भवतु | तेन प्राञ्चनिवृत्तिः कथं भवेत् । कालान्तरभवस्य शुद्धचिन्मात्रप्रत्ययस्य च कः सम्बन्धः, को विरोधः, येन निवर्त्य निवर्तकभावो भवेत् । न हि देवदत्तस्य स्वाप्नमन्यद्वा केवलस्वदेहदर्शनं तद्वस्त्रयज्ञदत्ततद्वस्त्रादीनां निवृत्तिं कुर्यात् । प्राक्तनप्रपञ्च प्रत्ययस्य २८४ किञ्च ब्रह्मज्ञानान्मुक्ति वदन्ति श्रुतयः 'ब्रह्मविदाप्नोति परम्' 'ब्रह्म- वेद ब्रह्मैव भवतीत्याद्याः । तत्र ब्रह्म ज्ञेयमन्यत्, तद्विषयं ज्ञानमन्यात प्रतीयते । केवला वृत्तिर्न ज्ञानम् । नापि केवला चित् । अत एव नोपहि- ताऽपि । विशेषाभावात् । आत्मधर्मः सविषयं ज्ञानं लोके प्रसिद्धम् । लोकप्रसिद्धः एव वैदिकशब्दार्थः । न चैवंरूपं ज्ञानं भवद्भिरिष्यते । तस्मात् केवलं पारिभाषिकं भवत्सम्मतं ज्ञानम् । तथा च श्रुतिसिद्धं मोक्ष-