( 21 ) दित्वं नास्ति । बाह्यवस्तुषु वस्त्वन्तराध्यासकाले आत्मानात्मा- ध्याखनिवृत्तेरनन्तत्वमपि नास्ति । प्रवाहतIऽनादित्वमनन्तत्व चेति चेत् तर्हि जगदुपादानतया ऽभिमता एकाऽबिवेति न सिद्धयत् । मिथ्या प्रययरूप इत्यस्य अनिर्वचनीय इति भामतोविवरणमनुपपन्नम् । विषय हि मिथ्या । न तु प्रभ्ययः । स तु सन्नेव । तस्य कथमनिर्वचनीयत्वम् । एवं तावत् भाष्यभामतीकारयोरेव अद्वैतसिद्धान्तोपपादनं न हृद्य ङ्गमम् । किमुनेतरेषाम् । ‘‘सर्वथाऽपि अन्यस्य अन्यधर्मावभासतां न ब्यभिचरति r” इत्यध्यास लक्षणमाह श्रीशङ्करः। अनेन भ्रम एवाध्यास इत्युक्तं भवति । स कथं ब्रह्मणो भवेत् । भ्रमश्च ब्रह्मणश्चेति हि विप्रतिषिद्धमेतत् । ब्रह्म चेत् न भ्रमबत् । नित्यनिर्दोषत्वात् । भ्रमश्चेत् न ब्रह्मणः । हेयत्वात् । अथ जीवस्यायं भ्रमः, न । ब्रह्मणोऽ भन्नो वा जीवःभिन्ना वा । अथै उक्ता ऽनुपपत्तिः । ब्रह्मणो न भ्रमसम्भव इति । अन्ये अद्वैतहानिः । अध्यास सिद्धो जीव इति चेन्न । कस्य स'ऽध्यासः । न ब्रह्म ण इत्युक्तम् । न च जवस्येव । असतो जीवस्याध्यासायोगात् । सतोऽध्यासनिरपेक्षसिद्धि- कस्वात् । इत्थमदैतसिद्धान्ताधारस्तम्भभूतोऽध्यासो नोपपद्यते । न जानीमः कथमवैतिन इममध्यासं बुद्धौ आरोपयन्ति, धारयन्ति चेति । शङ्कर एवात्र विशदं किमपि नोक्तवान् । अत एव व्याख्यातृणां विप्रस्त पत्तिः ब्रह्माश्रिता अविद्या जीवाश्रितेति । प्रधानप्रश्नमिमं उत्तिष्ठन्तं न न जानाति श्ङ्करः। जानाति, समाधानं च अनृजु किमपि वक्ति । तस्येमा उक्तयः ‘‘कस्य पुनरयमप्रबोध इति चेत् यस्त्वं पृच्छसि तस्य त इति वदामः । नन्वहमीश्वर एवोक्तः श्रुत्या । यद्येवं प्रतिबुद्धोऽसि नास्ति कस्यचिदप्रतिबोधः ।” इति सूत्रभाष्ये आत्मेति तूपगच्छन्तीत्यत्र । अत्र प्रष्टुरयमाशयः ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति