२८६ विशिष्टाद्वैतसिद्धिः चतुर्थः यत्वेन | किन्तु साक्षात्क्रियमाणत्वेन । इदं च मुक्तावप्यस्नीति निर्विघातं पुरुपार्थत्वमिति । तन्न । सुखसाक्षात्कारल्याप्यभावात् । न हि शुद्धचैतन्यं तदा स्वत्मकं स्ववृत्ति वा सुखं साक्षात्करोति । ज्ञातृत्वाभावात् । सुखत्वं च नास्ति । निर्विशेषत्वात् । यत्तु सुखत्वर्माप परित्यज्य साक्षा- क्रियमाणत्वेनैव पुरुपःर्थत्व भनि, तद् दुःखेऽतिप्रसक्तम् । न हि दुःखस्य सतो न साक्षात्कारः । अत एवानुकूलतया वैद्यत्वं सुखलज्ञरणमाहुः । । वस्तुतस्तु सुख्रस्य स्वकीयत्नै पुमर्थत्वम् । न हि सुखसाक्षात्कारो भवत्वति वयचदिच्छा दृष्टा घटते वा | स्वप्रवृत्त्यनापत्तः । सम्बन्धस्य अवर्जेनीयसन्निधिकत्वाभिवानं साहसमात्रम् | व्याख्यातुर्ब्रह्मानन्दस्य तु — "स्वरूपसुखानुभवां जीवन्मुक्तस्यास्ति । तस्य पुमर्थताऽविह्ता । परममुक्तौ पुमर्थता नेप्यत एव । तदानीं तस्याव्यवहारेरणानुपयोगात् ।” इति मतम् । बत साधु कृतं मुक्तेर्वदद्भिरपुमर्थताम् । यत्परत्वेन वेदान्ता भवन्त्यत्यन्तमादृताः ॥ मुक्तिकाले व्यवहाराऽस्तु मा वा । अद्य पुरुषार्थत्वं मोक्षस्य कृत्वा वा तथ प्रेक्षावन्तः प्रवर्तन्ते, अकृत्वा वा | नतावदन्त्यः । प्रत्यक्षविरोधात् । आद्ये तेषां तत्र पुमर्थत्वधीः प्रमा वा अप्रमा वा । प्रथमे कल्पे मुक्तावपि पुरुषार्थत्व- मनुवर्तत इत्यभ्युपगतं भवति । द्वितीये फलसिद्धिर्न स्यात् । भ्रान्तप्रवृ- त्तित्वात् । शास्त्रःणि चाप्रमाणानि स्युः | भ्रमहेतुत्वात् | प्रतारकत्वाच्च । ४. मोक्षमाक् । मोक्षरूपपुरुषःर्थमाक् च भवन्मते कोऽपि नाम्ति । अहमर्थस्य बद्धास्थ नत्वात् । अवशिष्टस्य शुद्धचितः कदापि बन्धाभावात् । निर्त्यानवि- कारत्वान् । अहमर्थगतश्चिदंशः मुक्तिकालान्वयां पुमर्थभागित्यनेन न त्रिविदुक्तं भवति । चिदंशस्य नित्यशुद्धबुद्धमुक्त स्वभावस्य पूर्वमपि पुरु- षार्थान्वयाभावेन पुरुषार्थापेक्षा विरहात् । यस्तु ज्ञातृत्वेन कर्तृत्वेन भोक्तत्वेन
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४०१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति