पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः मोक्षभाक् २८७ चाभिमतः अचिदंशः तस्येदानीमगावःन् । न ह्याकाशस्त्र घटेन बन्धोऽ- पुरुषार्थः, तस्मिन् भिन्ने च वन्वनिवृत्त्या मुक्तिः पुरुषार्थश्च इण्येते | ततः को विशेषः प्रकृते । किञ्चायं चिदंशः नानुभविता | अनुभवानाभवत्वात् । नानुभाव्यः । अनुभवान्तरविषयत्वाभावात् । नाच | नानुभवः । विषयित्वाभावात् । एवं सति चिदंशं मुक्तिकालान्वयनं प्रति मुक्तौ पुरुष थंस्य सम्भव इति किमभिप्रत्यांच्यते । अत्यन्तनिवृत्तदुःखस्य आत्मनः नित्यनिरतिशयानन्दानुभवो हि मोक्षः । मोक्षस्व पुरुषार्थत्व- सम्बन्धी नास्तीति बदन् लघुचन्द्रकाका: आर्जवशाली । यदपि “आत्मनः सुखमात्रत्वे सुखप्रकाशाभावेन पुमर्थत्वम् । उभ- यात्मकत्वे चाखण्डार्थत्वहानिः इति चाद्यं परिहरता मूलकृतोक्तम्- “सुखप्रकाशयोरेकात्मरूपतया उभयत्वस्यैवाभावात् । न चार्थभेदा- भावे सहप्रयोगायोगः । विद्याकल्पित दुःखजडात्मकत्वरू२व्यावर्त्यभेदेन तदुपपत्तः"

इति तद्प्यरम्यम् । अपुरुषार्थत्वापादकस्य सुखप्रकाशव्यतिरेकस्यैव एवमभ्युपगतत्वात् । विद्या कल्पित दुःखजडात्मकत्वव्यावृत्तिमात्ररूपे सुखत्वप्रकाशत्वे, न तु धर्मो आत्मनि वर्तमानौ इति ह्युच्यते । तथा च न सुखमस्ति, न तस्य प्रकाशोऽस्ति, इत्येव पर्यवस्यति । तथा च स्थित- म/पपुरुषार्थत्वं म.क्षस्य । तत्र "तस्मात् स्वप्रकाशचिदभिन्नं सुखं पुमर्थः ।” इत्युपसंहारो न युज्यते । इदमप्युक्तं ब्रह्मानन्देन - ." तथा च कैवल्ये सुखत्वाद्यसंसर्गेऽपि न क्षतिः ।” इति । ब्रह्मानन्देन वदता ह्येवमार्जवशोभिना । महान् खण्डनकाराणां भारोऽतीव लघूकृतः ॥