परिच्छेदः जीवन्मुक्तिः २८६ एवं चक्रभ्रमणस्थलेऽपि यथोचितं द्रष्टव्यम् | प्रकृते तु न तथा| देहा- देरपि रज्जुसर्पादिवद् भ्रममात्रसिद्धत्वाभ्युपगमात् । मूलकारणभ्रमनि- वृत्तौ पुनः प्रतीत्ययोग्यत्वात् । नन्वविद्यायां नष्टायामपि तत्संकारोऽनुवर्तमानः देहादिप्रतिभासम नुवर्तयतीति चेन्न । विश्वमिथ्यात्प्रयोजकस्य दृश्यत्वस्य उक्तमिथ्यात्व साधारण्यात् यथा मिथ्यात्वमपि मित्युच्यते तथा अविद्यासंस्कार- स्याप्यविद्यावदेव मिथ्यात्वेन तत्त्वज्ञानेन नाशावश्यम्भावेन अनुवृत्त्य- सम्भवात् । अन्यथा सत्यत्वम्यापरिहार्यत्वेन पत्तेः । वि यासंस्कारे प्रमाणाभावाच्च ज्ञानक्रिययोरेव हि संस्कारजनकत्वम् | यत्तु निम्सारितपुष्पायां सम्पुटकायां पुष्पवासना दृश्यत इति, तत् सत्यं तथा | वासना हि तत्र परिमलः गन्वापरपर्यायः । न तु स्वजनकस जाती- यकार्यान्तरजनकः संस्कारः श्रयं तु क्रियाज्ञानयोरेव | · वियां नटायां तदुपादेयम्य संस्कारस्य स्थित्ययोगाञ्च न तद्- धीनो देहादिप्रतिभासः सम्भवति । यत्तु विनश्यवस्थस्य समवायिकारणं विना स्थित श्यत इति तन्न ! समचाविकाररानाशः तत्समवेतकार्य-- नाशे कारणम् । अतः कारणनःशोत्पत्तिक्ष मानन्तरक्षण एवं कार्यनाशां वक्तव्यः | तस्मात् कारणनाशक्षणे अगत्या कार्यमस्तीत्यङ्गीकुर्वन्ति नै चायिकाः । असत्कार्यवादिनामेषां इद्मपरिहायें भवति । सत्कार्यवादिनां तु वेदःन्तिनां तत् सर्वथा निरसनीयम् | नैवाभ्युपगमार्हम् | अभ्युपगम- वादेऽपि तद्वत् प्रकृतेऽपिशः प्रथमक्षणे । तदुपादेयसर्वकार्य- नाशोऽनन्तरक्षण इति काममस्तु : यावद्द हपातं संस्कारानुवृत्तिरिति तु कथमेतत् । ! ननु प्रारब्धकर्मावसानपर्यन्तं देहादिप्रतिभासोऽपरिहार्यः । अत- स्तदुपपत्तये संस्कारस्यापि तावत्कालं स्थितेरावश्यकतया तन्नाशं प्रति प्रारब्धकर्मणः प्रतिबन्धक त्वमिष्यते । एवं च प्रतिबन्धका भावविशिष्ट-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४०४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति