विशिष्टाद्वैतसिद्धिः चतुर्थः ! हेतोस्तावत्कालमसत्त्व! त् संस्कारानुवृत्तिरुपपन्नेति चेत्, प्रारब्धं कर्म विद्या प्रत्येव कुतो न प्रतिबन्धकम् । अविद्यानाशनुत्पनं कृत्वा तत्संस्कारास्तित्वं, तन्नाशस्य प्रतिवन्ध्यत्वं च कृतः कल्प्यते । जीवन्मु तिर्न सिद्धयनीति चेत् प्रामाणिकी सा कामं न सिद्धयतु का हानिः । आह च भगवती श्रुतिः 'न ह वै सशरीरस्य सतः प्रियाप्रिययोरपति- रस्ति । अशरीरं वाव सन्तं प्रियाप्रिय न स्कुशतः इति । अत एव जीव- न्मुक्तिरिति व्याहतम् | जीवतो मुक्तचभावात् । मुक्तस्य जीवनाभावात् । वस्तुतस्तु प्रारब्धस्याप्या विद्यकत्वाविशेषात् तत्त्वज्ञानीसत्यनन्तरं स्थितिदुर्लभा : कुतस्तस्यान्यस्थितिप्रयोजकत्वम् । एतेन तत्त्वे ज्ञातेऽपि द्विचन्द्रादिवद् बाधितानुवृत्तिसम्भव इति निरस्तम् । तत्त्वज्ञानाबाध्यस्य वास्तवस्य दोषस्य तत्र सत्त्वात् । इह तदसम्भवात् । ननु तिमिरारादिदोषोऽपि न वास्तव इति चेत् तदन्यत् । चन्द्रद्वित्वबाधक्रेन तस्य न बाध इति तु सम्प्रतिपन्नम् । न च प्रकृतें कृत्स्नाविद्याबाधकेन तत्त्व साक्षात्कारेणावाध्यं किञ्चिदस्ति | तत्सत्वं ब्रह्म- वत् तस्य सत्यत्वापत्तेः । बाधां वा अबाधां वेति द्वावेव पक्षौ । न तु विलम्बेन बाध इति पक्षान्तरसम्भवः । विलम्ब कारणस्य सर्वथा दुर्व- चत्वात् । २६० नूनमतिसङ्कटामिमां स्थितिं जानाति तत्र भवान् मधुसूदन- सरस्वती । अतः पक्षान्तरमाह - यद्वा अविद्यालेशानुवृत्त्या देहाद्यनु- वृत्तिः' इति । लेशो नाम आकार: | अनेकाकारा अविद्या | तस्या निवृ त्तावपि तदीय एक आकारोऽनुवर्तते । स हेतुर्देहाद्यनुवृत्तेरिति मन्यते इदमपि पूर्ववदेवानुपपन्नम् । आकरिनाशोत्तरमाकारः कथमनुवर्तेत । न च व्यक्तिनाशात्परं जातियेथा तथेति वाच्यम् । व्यक्तिव्यतिरिक्तत्वातू नित्यत्वाच्च जातेः व्यक्तिनाशेऽप्यनुवृत्तियुक्ता । इह तु आकारस्या- प्यविद्यान्तर्गतत्वान् तथा सह नाशावश्यम्भावेनानुवृत्तिने घटते ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४०५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति