परिच्छेदः जीवन्मुक्तिः २६१ अथान्यदाह — लेशः शक्तिः । अविद्याया वह्नयः शक्तयः । तत्र या प्रवे पारमार्थिकत्वादिवीहेतुः शक्तिः, या च तत्रार्थक्रियासमर्थत्व- सम्पादिका शक्तिः तयोस्तत्त्व साक्षात्कारेण निवृत्तावपि अपरोक्षप्रति भासयोग्यार्थावभासजनिकायाः शक्तेरनुवृत्तेः तद्वती विद्यापि तिष्ठ- त्येवेति । अ यद्यप्युपादानं वनाप्युपादेयानुवृत्तिकल्पनाप्रयुक्ता दुरवस्था नास्ति, तथापि तत्त्वसाक्षात्कारे उत्खन्ने सति कथमविद्या- तच्छक्त चोरनुवृत्तिरिति चोद्यमपरिहृतमेव । न च प्रारब्धस्य प्रतिबन्ध- कत्वं गतिः। तद्नुवृत्त्यनुपपत्तेरपि प्रदर्शितत्वात् । विद्यस्य यस्य कस्यापि सर्वधस्मरेण तत्त्वज्ञानाग्निना अवशेषणासम्भवात् । अवशेषणे -सत्यत्वस्यानिवार्यत्वान् । देहादिप्रतिभासेन तत्त्वज्ञानोदयेऽपि वः | न प्रपञ्चस्य मिथ्यावा॑मति युक्तो विनिर्णयः || यत्तु ‘भूयश्चान्ते विश्वमायानिवृत्तिः' इति श्रुत्या भूयश्चान्त इत्यनेन पूर्वमपि मायानिवृत्तिरस्तीति बोधनात् जीबन्मुक्तिसिद्धिरिति तदङ्गी- कुर्मः । परं तु भवताऽपि जीवन्मुक्तस्य मायानुवृत्तिरभ्युपेयते । तथा चाविद्यावतः कथं मुख्यवृत्त्या मुक्तत्वम् | अमुख्या मुक्तिः प्रमाणान्तर- विरोधेन कल्पनांया | देहाद्यनुवृत्तिमत्त्वात् तदधीनप्रवृत्तिनिवृत्तिमत्त्वान् क्षुत्पिपासादिमत्त्वाच्च नैतेषां निवृत्तिरूपा सा मुक्तिः । किन्तु मुक्तस्य यो निरतिशयानन्दब्रह्मानुभवः शास्त्रैरवगम्यते तत्सजाताय वित्तक्षणमनुभवं बिलक्षणोऽधिकारी लभत इत्यनेन सामान्येन स मुक्त इत्युच्यते । यत्तु देहादिप्रतिभासस्य तदीयस्याबन्धकत्वमुच्यते तदश्रद्धेयम् । यदपि सूत्रभाध्ये परकीयोऽनुभवविशेषः परेण कथं प्रतिक्षिप्येतेत्युक्तं तत्पक्षान्तरेऽपि सुवचम् । परकीया स्थितिः परेण कथं साध्येतेति । यो- ऽस्माकं स्वानुभवः या च मुक्तप्रायाणां महतां प्रवृत्तिनिवृत्तिभ्यां जाय- माना तदवस्थानुमितिः, या च 'नह् वै सशरीरस्ये 'त्यादिका श्रुतिः,
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४०६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति