२६८ विशिष्टाद्वैतसिद्धिः [ ३ भवति ! पश्चात् तदुपादाने च प्रयतते । पश्चात् तावुभौ सङ्गच्छेते चेति । इति समन्वयाधिकरणान्ते भाषमाणः द्रमिडाचार्यनिदर्शनमेतत अद्वैतस्यात्यन्तं प्रतिकूलमिति व्यञ्जयामास | " स एवं चोधितः त्यक्त्वा व्याधजातिप्रत्ययकर्माणि पितृपैतामहीमात्मनः पदवीमनुवर्तते राजाऽह- मस्मीति” इति निदर्शनांपन्यासः शङ्करः । अयमस्यार्थः। नाहं व्याध इति प्रतिबोधं प्राप्य राजपुत्रः तदवधि अनुवृत्तानि व्याचकर्माणि त्यजति । राजाऽहमस्मीति प्रतियन पितृपैतामहीयमात्मनः पदवीमनु- वर्तते । राज्यश्रियं प्राप्नोतीति यावत् । एवं नाहं संसारीति प्रतिपद्यमानः संसारिकर्माणि न त्यजति । यावद्द हपातमाहारव्यवहारापरित्यागात् । अहं ब्रह्मैवास्मीति सप्रकारकज्ञानाद् ब्रह्मभावमपि न प्राप्नोति । अनिष्टं चाद्वेतिनां सप्रकारकज्ञानस्योपायत्वम् । निष्प्रकारकज्ञानस्य तु राजाऽह- मस्मीति प्रत्ययो न निदर्शनम् । एवं प्रतिपद्यमानी राजपुत्रः यथा राज्य- श्रियं प्राप्नोति तथाऽहं ब्रह्मास्मीति प्रतिपद्यमानः ब्रह्मभावं प्राप्नंतीति हि निदर्शनार्थः । न च राजत्वप्रतिपत्त्यानन्तरं तन्महिमप्राभिवत्र ब्रह्मत्वप्र- तिपत्त्यनन्तरं प्राप्यं दिस्ति । अतो दृष्टान्तासामञ्जम्यम् । एते नात्र 'तत्त्वमस्यादिवाक्यमैक्यपरम् । तच्छेषः सृष्टयादिवाक्यम् इत्यानन्द गिरिविवरणमप्यसङ्गतमिति स्पष्टम् | राजेति प्रतिपत्ति- मात्रे निदर्शनस्यापर्यवसानात् । व्याधत्वस्य राजपुत्रे आरोपित्तस्य निवृत्तावपि व्याधेषु व्याधत्ववत् आत्मनि आरोपितस्य देहत्वादेर्निवृत्ता- वपि देहादिपु देहत्वादेरनिवृत्त्या सृष्टिवाक्यानां स्वार्थपारमार्थ्योपपत मिथ्यार्थत्वकल्प प्रमाणाभावात् । तदिदं द्रविडाचार्योक्तं निदर्शनं नाद्वैतानुकून्नम् । ३. 'द्रविडोऽपि च तत्त्वमसीति वचो विनिवर्तकमेव निरूपितवान् ! शबरेण विवर्धितराजशिशोनिजजन्मवटुक्तिनिदर्शनतः ॥'
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४१३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति