४ : ५ ] २६६ इति तोटकश्लोके द्रविडपदेन तदाचार्यशङ्करविवक्षैवेतितंयुक्तम् । नात्र व्याख्यातुर्भमः कल्पनीयः । अतिप्राचीने नैष्कर्म्यसिद्धिग्रन्थे 'एवं गौडैर्द्राविडैनः पूज्यैरर्थः प्रभाषितः' इति निस्सन्देहं शङ्करपरतया द्रावि- डपदप्रयोगादुदीच्येषु तदन्तेवासिषु द्राविड इत्येव स पप्रथ तस्मिन् काल इति हि स्फुटमवगम्यते । ४. उज्ज्वलाकारी हरदत्तोऽन्यो वाऽर्वाचीनं ऽद्वैनी शाङ्करमेव पन्थानमनुसरतीति सहजसिद्धमेतत् | तेन प्रकृतविमर्शमय न कश्चि दुपयोगः । अनुबन्धः 1 । ५. ब्रह्मनन्दिकृतवाक्यग्रन्थः द्रविडाचार्यकृतस्तद्भाष्यग्रन्थश्च चिरान्नष्टौ ! आनन्दगिरिप्रभृतिभिरपि नदृष्टौं। तत्र सिद्धन्तु निवर्त- कत्वात्' इति कस्मिन् प्रकरणे केनाभिप्रायेणोक्तमिति स्वयं ज्ञातुमस्माक- मशक्यम् । अद्वैतनस्तु अन्यन्येव सन्ति उपनिषदा दिवाक्यानि हठा- देव स्त्राभिमतार्थे प्रमाणयन्तीनि सर्वमेतत् | अम्य वाक्यस्यार्थं प्रति ते एककण्ठा अपि न भवन्ति । केचिद् ब्रह्म पदानां व्युत्पत्त्यभाव शङ्कापरिहारपरं वदन्ति । अन्ये ब्रह्म मेयत्वकृतप्रामाण्यांनरास- परम् । इतरे तत्त्वमस्यादिशास्त्राप्रामाण्य प्रतिक्षेत्रपरम् । एवमपि तु व्याख्यातुं शक्यमिदम् । ननु वेदान्तशास्त्रमप्रमाणम् । निष्प्रयोजनत्वात् । तत्त्वहित बांधद्वारा मोक्षलाभां हि तस्य परमं प्रयोजनम् । स मोक्षो यद्यु- पायेन साध्यः तहि स्वर्गवदनित्यः स्यात् । अथ न साध्ः तहिं तदुपा- दवेदकं शास्त्रं व्यर्थं सद्प्रमाणम् । एवमाक्षेपे प्राप्त सिद्धन्तु निव- र्तकत्वादिति । सिद्धमेव शास्त्रप्रामाण्यम । नैतदाक्षेपामत्यर्थः । कस्मान् । निवर्तकत्व त् । शास्त्रबोधितो ह्युपायः न मोक्षमुलायति, याग इव स्वर्गादिकम् येनानित्यः स्यात् । अपितु प्रतिबन्धकं निवर्तयति केव- लम् । ब्रह्मवदेव अपहत पाप्मत्वादिगुणाष्ट्रक सम्पन्नं हि जीवस्वरूपम् । तत्त कर्मरणा तिरोहितम् । भक्तियोगात्मकेन शास्त्रविहितेन निदिध्या-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४१४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति