३०४ विशिष्टाद्वैतसिद्धिः [ ११ : १२ : १३ विदः इत्यादिगौरवोपपदविरहात् अन्य एव केचिद् व्याख्यातार इहाभि- प्रेता इति युक्तम् । ● १. अत्र 'सात्मीभावात्' इति युक्तः पाठः | सात्मीकरणमित्या- दिव्यवहारस्य साम्प्रदायिकत्वान् | १२. अत्रोपाते कल्पतरौ सम्यग्ग्रहणवतो भास्करस्य भ्रमकथनं, ब्रह्मनन्दिवाक्ये 'दध्यादिवन्' इति दृष्टान्तं परित्यज्य, 'परिणामस्तु' इत्येतावनमात्रग्रहणं, तस्य मिथ्यापरिणामाभिप्रायत्वप्रतिज्ञानं चेति सर्वमिदं अत्यन्तमनृजु | ‘संव्यवहारभावत्वात्' इति ब्रह्मनांन्दवाक्यस्य अनिर्वचनीयत्वं नैवार्थः | अपितु कार्यावस्थायां यद् भवति तस्य संव्यवहारमात्रत्वादित्यर्थः । यदेव कारणभूतं वस्तु तदेव अवस्थान्तर- विशिष्टं कःयं भवतीति असदनिष्पाद्यत्व पद्यस्य नावकाशः | पूर्वमभूतस्य अवस्थान्तस्योदयान्न प्रवृत्त्यानर्थक्यचंय : । अवस्थान्तरे किं भवतीति चेत् संव्यवहारां भवति । नामान्तरेख मिधानं पूर्व या असाध्या तादृशार्थक्रियाकरणं च । एवं संव्यवहारायावस्थान्तरमात्र- भजनान् वस्तु तदेवेति सत्कार्यवादसमर्थनभिह क्रियते । नानिर्वचनीय त्वस्य आघ्राणमपि । १३. अत्रोदाहृतेन मास्करभाष्यप्रथेन अद्वैतमतस्य वास्तवं रूपं सुप्रकटतम् । “सूत्रकारः श्रुत्परिणामपक्ष सूत्रयाम्वभूव । अयमेव छान्दोग्ये वाक्यकारवृत्तिकाराभ्यां सम्प्रदायतः समाश्रितः। तथा च वाक्यं – परिणामस्तु दव्यादिवत्, इति इति वदता हि श्रुति सूत्रं सम्प्रदायः वाक्यं तद्भायनत्यम्य सर्वस्य न केवलमननुसाघ अपितु विरुद्धमिति अस्तकिमद्वैतस्थ मूल- मिति चेत् तद्प्याह- विगीतं विच्छिन्नमूलं महायानिकवौद्धगन्धिनं मायावाद व्यावयन्तो लोकान् व्यामोहयन्ति ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४१९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति