पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 23 ) . ' अन्या शङ्का-‘ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावप्रसङ्ग" इति । अत्र समाधिः—‘यत् पुनरुक्तमीश्वराभावप्रसङ्ग इति, तदसत्। शानप्रामण्यादनभ्भुपगमाच्च ।’ इति । अत्र ‘शाखप्रामाण्यान्इत्येत दुपहास्यम् । न हि शास्त्राणि एकमेव वस्तु विरुद्धधर्मद्वययोगितया युग पन् वर्तमानं बोधयितुं क्षमन्ते । एक एव हि आत्मा इष्यते । तस्य संसा रित्वे ईश्वराभाव एव । संसारित्वं प्रत्यक्ष सिद्धम् । तस्मादश्चराभाव एव अभ्युपगन्तव्यो भवति । तत्र शास्त्रं किं करिष्यति । अनुपपन्नार्थं हि तद् गौणतया नेयम् । अथ यो द्वितीयो हेतुः ‘अनभ्युपगमाच' इति स एवं विवृतः—'न ईश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इत्यभ्युप गच्छामः । किं तर्हि । संसारिणः संसारित्वापहेन ईश्वरात्मत्वं प्रति- पिपादयिषितमति । एवं च सति अदैनश्वरस्य अपहतपाप्मत्वादिगुणता, विपरीतगुणता तु इतरस्य मिथ्येति व्यवतिष्ठते ।" इति । नेदमाक्षेपस्य समाधानं भवति । काममस्तु शस्त्रं ईश्वरस्य संसार्यात्मत्वं न प्रतिपद् यत । अपि तु संसारिणः संसारित्वापोहेन ईश्वरात्मत्वमिति । अथापि वस्तुवृत्तं तावत् कीदृशं भवति । एक एवास्मा छेनभेदनानर्हः। स संसारी चेत् ईश्वरः कः ? स नास्तीत्येव हि प्रसज्यते । एवं सति ईश्वर बाधकृशाननर्थक्यं च दुष्परिहरम् । अस्य प्रसङ्गस्य ‘न हीश्वरस्य संसा र्यात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छमः इत्येतेन कथं परिहारः। ईश्वरा- दन्यः संसार्यात्मा किं कश्चिदस्त ? अपरा शङ्का—‘संसारिणोऽपि ईश्वरात्मस्वे अधिकार्यभावात् शत्रानर्थक्यमेव । प्रत्यक्षादि विरोधश्च ।” इति । परिहारश्च—यद युक्तं अधिकार्यभावः प्रत्यक्षादिविरोधश्चेति । तदप्यसत् । प्राक् प्रबो धात् संसारित्यभ्युपगमात् । तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य ।” इति । अयमप्यनुपपन्न एव । प्राक् प्रबोधात् संसारित्वं कस्य । आरमन एव हि । स च एक एव । सः प्राक् प्रबोधात् संसारी। प्रबोधे तु ईश्वरो