१५ ] अनुबन्धः द्रमिडभाष्यग्रन्थः, सूत्राणां विस्तरेण विवरणपरः श्रीवत्साङ्कग्रन्थः, इत्युच्यते आचार्यैः । अयोः परस्परं मूलमूलिभावः नैवात्राभिप्रेतः, नैव प्रनीयते । लक्ष्मीपुर-श्रीनिवासाचार्योक्तिश्चिन्त्या । ३०७ १५. अभिनवग्रन्थकरणे स्वप्रवृत्ति वैयर्थ्यपरिहाराय " यद्यपि सूत्रा- त्मको मूलप्रन्थोऽस्ति; संक्षे रुचीनां तदनुरूपो इमिडभाष्यग्रन्थोऽस्ति; विस्तरापेक्षिणां तदनुरूपः श्रीवत्साङ्क ग्रन्थोऽस्ति" इत्येवं भगवयामुनमु- निभावे आत्मसिद्धिवाक्येभ्यः निस्सन्देहं सुष्मवगम्यमाने 'दोषो ह्यविद्यमानोऽपि तचित्तानां प्रकाशने' इत्यनेन न्यायेन अन्यथा प्रतिपद्य- मानः शास्त्री, श्रीभाष्यकारप्रभृतयः सर्वे अस्मदाचार्या धूर्ता इति घोषणे संरम्भी कल्पनापरम्परां महती उमति । यामुनाचार्योक्तं द्रमिडभाष्यं प्रसिद्धान् वाक्यव्याख्यानरूपाद् द्रमिड- भाष्यादन्यत् । अस्य व्याख्यानं श्रीवत्साङ्क मिश्रकृतं विस्तृतं विवरण- मिति प्रथमा कल्पना । अस्य श्रीवत्साङ्क मिश्रस्य रामानुजप्रभृतिभिः कीर्तन वा गभीरन्यायसागरभाषिणेति यामुनकृतः पुरस्कारो वा न क्रियते ! श्रीवत्साङ्के प्रयुक्तं भगवत्त्वविशेषणं पतैः स्वधाय प्रयुक्तम् । श्रीवत्सःङ्कग्रन्थे उक्तं विस्तृतत्वं स्वकल्पित एव बांध ग्रन्थे उक्तम् । इतीयं द्वितीया सावयवकल्पना । अयोभनवद्रमिड- भाष्यकारश्रीवत्साङ्कमिश्रयोः पौर्वापर्य विपर्यस्य "विस्तार्णवृत्तिकारों भगवान् बांधायनः पूर्वमासीत् । ततः परं तदुक्तार्थसंक्षेत्रकारां द्रमिड- भाष्यकृदभूदिति रामानुजायः कल्तिवन्तः" इति परमाद्भुता अनन्य- बुद्धिगाचरीभावाां तृतीया कल्पना | इत्यं वस्तुतः नवीनर्द्रामिडभाष्य- र्ताद्ववरणश्रीवत्साङ्क ग्रन्थमूलकत्वे स्थिते सङ्केतेनैव बोधायनमहर्षिटङ्क- इमिडाचार्याांदिग्रन्थमूलकत्वं स्वसिद्धान्तस्य ऐककण्ठन घोषयन्तीति स्वसिद्धान्तसिद्धमिथ्याप्रपञ्चगोपुरस्त्रर्णकलशायमाना चर्मा कल्पना | शिष्ट सम्प्रदायबाह्योऽयं शास्त्री अस्मदाचार्याणां स्वरूपस्वभावादिकं
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४२२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति