पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ विशिष्टाद्वैतसिद्धिः [ २० । व्याख्यानावसरे “नन्वेयं दहरविद्यायाः परमेश्वर उपास्य इति निर्णयोऽ- नुपपन्नः। नारायएस्चैव तदुपास्यत्वान्” इत्युपक्रम्य “यद्वेदादौ” इति मन्त्रस्यायमर्थः |... तदाद्यन्त: प्रतिष्ठितः स्वर: ओङ्कारः | तस्य प्रकृतिरकारः : तस्मिन स्वप्रकृतावकारे लीनस्य अकारता प्रामस्य यः परो वाच्यः । इदम्परः तवरः इत्यादौ वाच्ये परपदप्रयोगदर्शनात् । स महेश्वाः । इत्थं सवशब्दजालप्रकृतितया निखिलवाचकोत्कृष्टाकार- वाच्यस्य निखिलवान्चोत्कर्षो युक्त इत्यौचितीमवलम्ब्य अकारवाच्यस्य सर्वेश्वरत्वप्रतिपाद्कोऽयं मन्त्री नारायणपर एव पर्यवस्यति ।... तस्मा- दत्र परमेश्वरस्योपास्यत्व‘नयो न युक्त इत्याशङ्का मर्नास निघाय उपक्र- मादिभिस्तथा निर्णयस्य युक्तत्वमुपपार्दायतुमुपक्रमते- - अथ खल्विति । " इति श्रीकण्ठेन मनसि निहिततयोक्तायाः शङ्काया विषयः साक्षाद् वेदा- र्थसङ्ङ्ग्रहतद्द्व्याख्यानयोः स्थितः । “वंदाद्य तरूपतया वेदबीजभूतप्रणवस्य प्रकृतिभूता कारवाच्य- तथा महेश्वरत्वं प्रतिपाद्यदहरपुण्डरीकमध्यस्था काशवर्तितया उपास्यत्वमुतम् । अयमर्थः । सवस्य वेदज्ञातस्य प्रकृतिः प्रणव उक्तः । प्रणवस्य च कृतिरकारः । प्ररणवधिकारी वेदः स्वप्रकृतिभूते प्रणवे लीनः । प्ररण वोऽप्यकारविकारभूतः स्वप्रकृता- बकारे लीनः | तस्य प्ररणवप्रकृतिभूतस्य अकारस्य यः परः वाच्यः स एव महेश्वरः' इति । सर्ववाचकजातप्रकृतिभूताकार- वाच्यः सर्ववाच्यजातप्रकृतिभूतो नारायणो यः स महेश्वर इत्यर्थः । इति तत्रोक्तम् । तत्र विवरणम् - इदम्परस्तत्पर इत्यादिषु परशब्दस्य वाच्यतार्थत्वादित्यर्थः इति । अथेदन आनन्दलहरीतद्व्याख्यानयोः का गतिरिति चेत् द्वे, अवस्थे, चित्तकालुष्यरहिता तद्वती च । पूर्वा मणिदीपिकारचनाकाले ।