३१४ विशिष्टाद्वैतसिद्धिः थैवत ब्रूयुः । तद्भावात स्वरूप मेवापलपाम इति संरभन्ते । यामुनाचार्यः कुतो न भाष्यं चकारेति पृच्छति शास्त्री | गौडगदा गोविन्दपादो वा कुतो न चकारेति पृष्टो यदुतरं दास्यति तत्प्रकृतेऽध्य नुसन्धेयमिति ब्रुमः । विमर्शः कथं कार्यः | तत्त्वोपलम्भमार्गः क इत्यादौ जात्यन्धः शास्त्री | २२ } 'यग्रन्थाननुसन्दधे यतिपतिः' इत्यादिदेशि कश्रीमुक्तीरेव प्रमाण- यन् “रामानुजार्यः स्वीय सम्प्रदाय यामुनेयप्रवन्धमुखेनैव जग्राह” इत्य- द्भुतं निर्णयं करोति । स्वसिद्धान्त परमप्रमाणभूतश्रीभाग्यप्रणेतुः सप्तत्या स्वेन स्तूयमानस्य रामानुजस्य आचार्य सम्बन्धात्यन्ताभावं स्वयं देशिको घोषयनीति यस्य बुद्धौ प्रतिभानं भवति तस्य अस्मत्सम्प्रदायसम्बन्धि- विषयचिन्तायां वा सामान्यतो विषयविमर्शे वा क्रियती योग्यतेति सुग्रहं सर्वेषाम् । 'वयमस्मिन् शारीरकमीमांसाशास्त्रे प्रदर्शयिष्यामः' इति प्रतिजानानः शङ्करः “पूर्वैर्न प्रदर्शितः सोऽर्थः । नाहं गुरुमुखात इममर्थ गृहीतवान्” इति ख्यापयति । 'प्रत्नैराचार्यरत्नैरपि परिजगृहे शङ्कगद्यैस्त- देव" इति दीक्षितोक्तचा मार्गस्य प्रथम प्रवर्तकः शङ्कर एवेति स्पष्टमभिधानात् अयं गुरुमुखात् किमपि न जग्राहेति सिद्धयति । “एवं गौडैद्रविडैनं: पूज्यैरर्थः प्रभाषितः" इत नैफर्म्यतिध्युक्तचा गौडशङ्क- रयोर्मध्ये यः कोऽपि नासीदिति निश्चीयते । अनुपदं विचित्रतरं भाषते शास्त्री- - अत एव मनु स्व- न्थेषु स्वीयसाक्षाद्गुरूणां पञ्चषाणां मध्ये के पांचिदपि वन्दनं न कृतम् - इति । ननु यो गुरुमुखात् सम्प्रदायार्थ न जग्राह तस्य स्वीयाः साक्षी- द्गुरवः पञ्चषाः कथम् । किमिमे भोजने शिक्षाप्रदाः । श्रीदशिकादि. भिरेव साक्षाद्गुरवः पञ्चषा आसन्नित्युक्तमिति चेन तर्हि एवं कण्ठोक्तो सत्यां यामुनग्नन्थानुसन्धानादिकथनमात्रेण साक्षाद्गुरुमुखात् सम्प्र- दायार्थप्रदणाभावानुमानं कथं युज्यते । पञ्चपाणां सत्त्वात् तत्रैकस्य
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४२७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति