३२२ विशिष्टाद्वैत सिद्धिः [ २८ इति । अत्र वृत्तिकारमतं निरस्यत इति स्पष्टं पश्यामः । इदं निरसनं " श्रुतप्रकाशिकाकार कल्पनं " इत्याह शास्त्री | न मिथ्यावादाद् भीतिः, न दैवात् । येषां परैः कलहाय दर्शनं, आस्तिक्याभिनयाय शैवं मतं, अर्थार्जनाय रामायणभागवतादिप्रवचनं, शास्त्रीये क्रिया- विशेषे शून्यललाटता, अथाद्य अस्मनः, अन्यदा चन्दनोर्ध्वपुण्ड्रस्य, कन्यामासस्थिरवासरेषु मृत्तिकोर्ध्वपुष्ड्रस्य धारणमित्यादि स्वांत, ते पातिव्रत्यशाञ्जिनः। ये तु भगवत्पर मैक तिनः मनोवाक्कायेषु एकरूपतया नियतवृत्तयः ते कुलटापभाजः | नूनमपारः कलेर्महिमा | | देशपाकिस्था- निभ्योऽतिरिच्यतेऽयं वेदान्तपाकिस्थानी | याः क्रूराः पापवृत्तयः निश्शङ्कं निर्दयं निहं निर्दाक्षिण्यं निष्कम्पं वृकवत् स्वयमाचर्यन्ते ताः सर्वाः परैराचर्यमारणतया घाण्यन्ते । “बोधायनस्याद्वैतविरुद्धं व्याख्यानमेव गगनकुसुमम् । भाष्यकारैर- दूषितत्वात्” इत्याह । अन्य औपवर्षद्वैतपरं व्याख्यान गगन- • कुसुमम् । श्रीभाष्यकारैरदूषितत्वादिति सुवचम् । वस्तुतस्तु बोधायन- वृत्तिः खण्डितैव श्रीशङ्करे | उपवर्षवृत्तिरपि तथा / जीवस्य ज्ञातृत्व- कर्तृत्वे हि तत्सम्मते । शबरस्वामिना तथोपपादनात् । ते च निरम्यति श्रीशङ्करः 'ज्ञोऽत एव', 'यथा च तक्षोभयथा' इति सूत्रभाध्ये । 'एक आत्मनः शरीरे भावात्' इत्यत्र देहातिरिक्तात्मसाधनमःत्रपरतया सूत्र- योजनमपि उपबर्षमतखण्डनमेव । न हि भगवानुपवर्षः गुणोपसंहारपादे असङ्गन केवतदेहातिरिक्तात्मसाधनमात्रपरं सूत्रमयोजयिष्यत् । ब्रह्मवदेव चिन्तनीयस्य आत्मस्वरूपस्य स्वभावविवेको ह्यत्र कर्तव्यः | अद्वैतसिद्धा- न्तविरुद्धत्वात् तत्सर्वं परित्यज्य देहव्यतरेकमात्रमात्मनः सूत्रप्रांतपाद्य- माह श्रीशङ्करः । विषयवैमत्येऽपि बहुमानस्य न हानिनिति भगवादुपवर्ष इत्याह । अथवा शास्त्रिप्रदर्शितक्रमेण खण्डना चारच्छादनायैव तथा निर्देश इति
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४३५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति