पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ । अनुबन्धः ३२७ प्रतीयते । तत्रैव देवनातः पृथक् गुणगणोपासनविधानात् । दहविद्या- निष्ठः ब्रह्मणो विभक्तं गुणगणं पृथगुपास्ते । तथा सद्विद्यानिष्ठो नोपास्त इत्युक्तं भवति । एवं चेन निर्गुणोपासनमिदं प्रसज्यते । अभ्य चोपास- नस्य फलं एतदनुरूपं निर्गुणप्राप्तिरेव भवितुमर्हति । एवं चेत् सगुणप्राप्ति- कामानां दहरविद्या, निर्गुणप्रातिकामानां सद्विद्येति व्यवस्थितत्वात् ‘विकल्पांऽविशिष्टफलत्वात्' इति सूत्रकारोक्ता विकल्पोऽनयोविंद्य योनं भवतीति शङ्का यद्यपीत्युक्ता | अत्र समाधिः तथारीत्यादिनोच्यते । उपासनविषयत्वाभावेऽपि गुगानां उपास्ये ब्रह्मणि विद्यमानत्वात् उक्ताया अनुपर्नास्यवकाशः अनुपासितापहत पाप्मत्वादिगुणापि हि परा देवता स्वयमन्तर्गतगुणैव, वस्तुतस्तद्गुणसहितैव । अतस्तद्गुणवत्या एव तस्याः प्रानि: । अतोऽविशिष्टफलत्वं विकल्पश्चेति सर्वं समञ्जसमिति । अन्तर्गुणा भगवतीति सज्ञेत्रशारीरकरली कविहे कृत्स्नमेवेदं द्रमिङ- ऋष्यं श्रीभाष्यकारेण कल्पितमिति ब्रूयात् । तत्सत्त्वात्तु अद्वैतमेव तदर्थं वदयामीति सन्नह्यति । तत्रेदं सुत्रीभिविर्भाव्यम् । 'युक्तं तद्गुण- कोपासनात्' इति वाक्ये मूलभूने उपासनपद प्रयोगात् 'अन्तर्गुगामेव देवतां भजते' इति भाध्ये भजिप्रयोगाच अद्वैतिसम्मतं केवलज्ञानमत्रो- भयत्र नभिप्रेत मिति स्पष्टम् । दहरविद्यायां निर्भुग्नदैवतो गु.गुगरणः पृथगुपासनवधानात् पृथगनुसन्धानविषय इत्यर्थः । सद्विद्यायां तु गुणा अन्तरेव वर्तन्ते । पृथगुगसनविष्यभावात अननुसन्धीयमाना एव वर्तन्त इत्यर्थः । एवं च गुणशब्दः उभयत्र समानार्थः । गुणेषु विद्याइये उपासनविषयत्त्रतदभावाभ्यां विशेष उच्यते । एवं सति अन्तःशब्दस्य प्रत्यगर्थत्वे गुणशब्दस्य स्वरूप रूपवचित्रार्थत्वे च किं मानम् ? यद्यपि तथाप्योः साङ्गत्यं च कथम् ? न हि सद्विधायां गुमनुपास्यत्वं ब्रह्मणः प्रत्यग्रूपत्वविरोधि । येन तत्र शङ्का भवेन् । न च प्रत्यग्रूपत्वाभि- धानमात्रं समाधानं भवति । दहरविद्या सगुणविषया । सद्विद्येय निर्गुण-