३१ : ३। ] अनुबन्धः ३२६ ‘संत्र्यहारमात्रत्वात्' इत्यत्र ब्रह्मनन्दिनोऽपि विवक्षितः ।" इनि (७८५ पु) सत्यमिदं वाक्यं 'वाचारम्भरणं विकारो नामधेयम्' इति श्रुत्यभिप्रायानु- सारि ! परंतु अद्वैतत्रापि नास्ति, नाभिनेतम् । सत्य एव विकारः अवस्थान्तरं, सत्यमेव तदनुगुणं नाम च वाचा व्यवहारेण हेतुना फल- भूतेन आरम्भ उपादानकारणेन द्रव्येण आलभ्यमानं स्पृश्यमानं भवति । मृद्विकारभूतं घटादिशब्दाभिधेयं च किल कार्यवस्तु मृत्तिकेत्येव सत्यम् । न तु मृत्तिकेतर्राकञ्चिद्रव्यत्वेन । अतः कारणमेव कार्य द्रव्यम् | अवस्थाभेदेन तु कार्यत्वम् । एवं एक विज्ञानेन सर्वविज्ञानप्रसि- द्धय सत्कार्यवादस्थापनपरेयं श्रुतिः । . भ्रान्तः इमां घटकश्रुतिं घोषयति । दूषयति च यस्य पृथिवी शरीर- मित्यादेर्घटकश्श्रुतित्वम् । प्रकृतिश्च प्रतिज्ञा दृष्टान्तानुपरोधात्' इति वाचारम्भणमित्यादेः प्रतिज्ञातार्थोपपादकत्वं सूत्रितं भाषितं च । घटक- अतित्वं न केनाप्युक्तम् । अनुपपन्नं च | भेदस्यात्यन्तं तिरस्कारात् । व्यावहारिकमिति भवद्भिः अपारमार्थिकस्यैवक्तेिः । अतो भवद्रीत्या भेदधातुऋश्रुतिरेषा, न तु घटकश्रुतिः । यस्य पृथिवीति व्यतिरेकनिर्दे- शात् । 'भोक्ता भोग्यं प्रेरितारं च ' इति भेदश्रुतियाथार्थ्यं, शरीरत्वव्यपदे - शेन 'विद्वान् ब्राह्मणः' इत्यादिवत् अभेदपरस्य 'सर्वं खल्विदं ब्रह्म' 'इदं सर्वं यदयमात्मा' इत्यादिसामानाधिकरण्यस्य मुख्यत्वं च समर्थ - यन्ती 'यस्य पृथिवी शरीरांमत्यादिरेव घटकश्रुतिरित्यास्तां तावत् । ३४-२५. अत्र भगवद्विग्रहविषये वाक्यकारभाष्यकारवचनान्यु- ग्राहृत्य वेदार्थसङ्ग्रहे यन्निरूपणं कृतं, यच्च तत्र व्याख्याने उक्तं तदनूच विमृशांत शास्त्री | भगवतः स्वाभाविकाः कल्याणगुणा इव रूपमप्यस्ति । श्रुतत्वादिति श्रीमद्भाष्यकृतां सिद्धान्तः । तत्र वाक्यं प्रमाणुयन्तस्ते वेदार्थसहे वाक्यकारश्च एतत्सर्वमाह - हिरण्मयः पुरुषो दृश्यत इति -
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४४२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति