पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७ : ४० ] अनुबन्धः ३३५ ३७-४०. परमार्थतो ये अद्वैतनः तेषां शैवत्वं श्रीकण्ठभाष्य- भक्तिञ्च नोपपद्यते । अद्वैतविरोधी खलु श्री राठः । तथा हि | ईक्षत्यधि- `करणे निर्विशेषवाद् खण्डयति । समन्वयाधिकरणे अविधेयज्ञानं निरा- करोति । गुहाधिकरणे बुद्धिजीववाद पूर्वपक्षीकृत्य परास्वति | भूमा- धिकरणे 'तस्मादिह ब्रह्मणि न द्वैतनिषेधप्रसक्तिः' इत्यवधारयति । अंशांवर 'ब्रह्मणि एवज्ञानाज्जीवभावकल्पने बहुश्रुति विरोधादि- दोषप्रसक्तिदुवारा' इति जीवत्रौक्यं प्रतिषेधति । सगुणमेव ब्रह्मस्वरूपं मुक्तप्राप्यं फलमिति 'उप'स्थतेऽतस्तद्वचनात्' इत्यत्र सिद्धान्तयति | द्वैतनिषेधः, जीवत्रह्मैक्यं, ब्रह्मणो निर्विशेषत्वं चाद्वैतस्य जीवितम् । तदयं विध्वंसयति | तस्य पक्षे पतद्भिः कथं वस्तुतः अद्वैतभिर्भवितुं शक्यम् | एषामद्वैतित्वं वा मिथ्या, शैवत्वं वा । तदास्ताम् | “श्रीकण्ठमतं वेदार्थसंग्रहेऽनूद्य निरस्यते । तत्र तात्पर्य - दारिकायां 'व्योमातीतवादं हृदि निधाय...तत्परिपाट'मुपन्यस्यति' इति व्योमातीनवादत्वेन निर्दिष्टं तन्मतमेव ।" इत्याह शास्त्री स्वप्र- कृत्यनुगुणवायविन्यासवत्या पद्धत्या अत्रापि सः यथावद् ग्रन्थार्थ - परिज्ञानावद विध्यमेवात्मनः प्रख्यापयति | जगदुपादानभूतः पुरु- षात्म। यो दुहराकाशः तस्मादतिरिक्तः तदन्तर्वर्ती कश्चिदुपास्यः, न त्वयं दहरा काश इति वादः व्योमातीतवादः । श्रीकण्ठस्तु दहराकाशस्य तदन्तर्वर्तिनश्च उभयोरुपास्यत्वं मन्यते । अनयोर्वादयोमिथः कः सम्बन्धः ? व्योमातीतवादः प्राचीनोऽन्यः । श्रीकण्ठप्रवर्तितः अर्वाचानः शक्ति शिवविशिष्टाद्वैतवादोऽन्य इति ग्रहणे अपः शास्त्री | व्यांमा- तीतवाद्स्य व्योमानतीतवादस्य च प्रस्फुटमपि भेदं न होतुमष्टे । · व्योमातीतवादं हृदि निवाय" इति विवरणवाक्यस्य परिहासपर- तथा वा जाड्यभूम्ना वा बालिशैकभाषणाईं कचिदभिप्रायं वर्णयति | एवंविवाऽभितायः करवनवाच्यरचेत् सः पूर्वनुदाहृते ( २० )