पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७ : ४० ] अनुबन्धः ३२७. प्रादुरभवन् । अथापि मीमांसक्रमूर्धन्यत्वात् दीक्षितस्य अनर्गलं तेनाभि- वृष्यमाणेषु मीमांसान्यायेषु ऋाकृष्टचेतसो विद्वांसः तं ग्रन्थमाद्रि- यन्त | ततः प्रभृति श्रीकण्ठभाष्यं लोके प्रसिद्ध मासीत् । एवं विद्वन्मण्डलाभिनन्द्यन्यायमालाभासुरे व्याख्याने नांपष्ठन्धमपि . श्रीकण्ठभाष्यं स्वरूपतो निस्सारं, निश्शांभम् । नूनं अनतिव्युत्पन्नः शास्त्रेष्वनधीती प्रजापतिपशुपति सुरपति प्रमुग्वदेवतान्तरव्यतिरेकेण भग- वत्पारम्य प्रतिष्ठापने प्राचीनैः प्राज्ञ राचायेंः यो मार्गः अनुसृतः तमेवा- नुसृत्य शिवपारम्यप्रतिष्ठापनपरं अभिनवब्रह्मसूत्रभाष्यं प्रणेतुं प्रवृत्तः. श्रीकण्ठः शिवालयगुरुः कश्चित् | शिवपारम्यवादम्य निगु णब्रह्म जीवत्र है- क्यप्रपञ्चमिथ्यात्ववादिनोऽद्वैतिनो नानुकूलाः । उपादाकारणत्वस्य उपनिषत्सु ब्रह्मसूत्रेषु च स्पष्टं प्रतिपाद्यमानस्य द्वैतमते निर्वाहः कष्ट- साध्यः । अतो विशिष्टाद्वैतमेव तान्त्रिकस्य शिवस्य वेदान्तप्रवेशे महोप- कोर कमिति मन्यमानः सः तदनुसग्न् कात्स्येंन श्रीमाण्यानुकारे परि- हास्यता भवेदिति सूत्रपाठाधिकरणभेदादिषु शाङ्करभाष्यमध्यनुसरन् इतः कांश्चन ततः कांश्चन विषयानादाय स्वभाष्यमकरोत् । शास्त्रेषु. निरूढपरिचर्यावरहान् विपुलं विचारं परपक्षप्रतिक्षेपं वा न करोति । विशिष्टाद्वैतस्योपजीव्यत्वात् तत्खण्डनं कचिदपि न करोति । देवता- विपर्यासातिरिक्तस्य निराकरणीयस्यांशस्य विरहाच । यथा नाथमुनिप्रभृतीनां महापुरुषाणां तथा श्रीभाष्यप्रभृतीनां उत्तम- ग्रन्थानां वैशिष्टयं यथावदवगन्तुमक्षमः शास्त्री यस्यकस्यापि ग्रन्थस्य. रूपयाथात्म्यावगमे अप्रगल्भ इति दृढं प्रतीमः | स्वकीयत्वमत्या महत्करणं परकीयत्वमत्या तुच्छीकरणं च पामरलक्षणम् । शाङ्करस्य मूत्रभाष्यस्य श्रीकण्ठभाष्यस्य च शब्दतोऽतश्च कियदन्त मिति ज्ञातुं यस्यास्ति शक्तिः स नूनं श्रीभाष्यस्य श्रीकण्ठभाष्यस्य च कियदन्तर मिति ज्ञातुं शक्नुयात् । निष्पक्षपातः पण्डितः कश्चित उभयं