पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७ : ४० ] ३३६ मित्यस्मिन् सूत्रखण्डे विवक्षितमर्थं श्रीशङ्करेण विवृतमध्ययं न गृह्णाति | ततोऽनेन श्रीभाष्यमनुसृत्य 'शाखाभेदेन प्रकरणभेदात्' इति युक्ति- मुक्त्वा 'उपासनं भिद्यते इति सामान्यतः प्रतिज्ञा क्रियते | अनन्तरं दहरविद्यायां गुणभेदाद् भेद उच्यते । शङ्करे - 'अस्त चात्र वेदान्तान्तरविहितेषु विज्ञानेष्वन्यदन्यन्नाम तैत्तिरोयकं वाजसनेयकं कौथुमं शाट्यायनकमित्येवमादि । तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धः “वश्वदेव्या- मिक्षा | वाजिभ्यो वाजिनम्" इत्येवमादिषु । अति चात्र रूपभेदः । तद्यथा केचिच्छाखिनः पञ्चाग्निविद्यायां षष्ठमपर- मग्निमामनन्ति | अपरे पुनः पञ्चैव पठन्ति ।' अनुबन्धः इति पञ्चाग्निविद्यायामुक्तो रूपभेदः अनेन दहरविद्यायामुक्तः । तत्र ‘सामान्यतः ‘विज्ञानेषु’ उक्तः नामभेदः अनेन पञ्चाग्निविद्यायामुच्यते- छान्दोग्ये पञ्चाग्निविद्यायां कौथुममिति नाम, बृहदारण्यके वाजसने- यमिति नाम | तत्र नःमभेदादुपासनं भिद्यते” इति । एवं यथा पूर्वप तथा सिद्धान्तेऽपि भाष्यद्वयविषयं सङ्कीर्ण मनुवदति । तत्र 'विद्यात् उपासीत, इति चांदना तावत' इत्यतः प्रभृति 'आख्यापि वैश्वानर- विद्येति' इत्येवमन्तः श्रीभाष्यानुवादः । 'दर्शयति च' इति सूत्रं 'दर्शयति च श्रुतिरुपासनस्य सर्ववेदान्त प्रत्ययत्वम्' इन व्याख्याय छान्दा ग्यवि- हितद्हर विद्यामुपजीव्य तैत्तिरीयहरविद्यावाक्यं प्रवृत्तमिति प्रदर्शितं श्रीभाष्ये । अत्र विद्यैक्यप्रदर्शनप्रकारं विपर्यस्य वदन्नपि श्रीकण्ठः तिरेव विद्यैक्यं दशःयति' इति श्रीभाष्यानुसारेणैव सूत्रं विवृणांति | इत्थं दहर विद्यैक्ये श्रुत्यैव प्रदर्श्यमाने, तद्द्दृष्टान्तंन विद्यान्तराणामपि ऐक्यसम्भवे प्रतिपाद्यमाने च एतदधिकरणपूर्वपदहरविद्यायाः गुणभे- देन भेदोद्भावनं चोदनाद्यविशेषेण तन्निरस्य ऐक्यस्थापनं च नैव युज्यते । श्रीभाध्ये नैव तत् कृतम् । श्रीकण्ठस्तु इदं ज्ञातुमशक्तः स्वतन्त्रं