पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७ : ४० ] ३४१ , न वयं ब्रह्मप्रपञ्चयोरत्यन्तमेव भेदवादिनः, घटपटयोरिव । तदनन्यत्वारश्रुतिविरोधात् । न वाऽत्वन्ताभेदवादिनः शुक्ति- रजनोवैतरमिथ्यात्वेन | तत्स्वाभाविक गुणभेदपरश्रुतिवि राधात् । न च भेदाभेदवादिनः । वस्तुविरोधात् । किन्तु शरी- रशरीरिणीरिव गुणगुणिनारिव च विशिष्टाद्वैतवादिनः । प्रप- चब्रह्मणीरनन्यत्वं नाम मृद्धटयोरिव गुणगुणनोरिव च कार्य- कारणत्वेन विशेषणविशेष्यत्वेन च विनाभावरहितत्वम् । नहि मृदं विना घटो दृश्यते । नीलिमानं विना चोललम् । इति । 'भावे चोपलव्धेः' इति सूत्रे च ततो मृद्धटयोरिव ब्रह्मप्रपञ्चयोरपि व्याप्यव्यापकभावादनन्यत्वम् । इति । एतैर्वाक्यैः विशिष्टाद्वैतमित्यस्य श्रीकण्ठगृहीतोऽर्थः अयमिति ज्ञायते । विशिष्टघटक याविशेषण विशेष्ययारे केनेतरस्य व्याप्त्या, कार्य- कारणभावेन. अविनाभावेन च यदुनन्यत्वं तद् विशिष्टाद्वैतमिति । नायमर्थ उपपन्नः । पृथस्थितिविरहेऽपि शरीरशरीरिणोरन्यत्वात्, अन- न्यत्वा भावात् । एवं गुणगुणिनारपि । मृद्धटया वैशिष्टयं च दुर्वचम् । न हि मृद्विशिष्टा घटः । तत्र विशिष्टाद्वैतं नास्ति । एवमेव ब्रह्मप्रपञ्चयो - रपि । ब्रह्मणः सर्वज्ञत्वंन चेतनाचेतनात्मकप्रपञ्चस्य किञ्चिद्ज्ञत्वजड वादिना चान्यत्वेन अनन्यत्वाभावात । न च व्याप्त्याऽनन्यत्वम् । आकाशवटयोरनन्यत्वाभावात् । अत एवात्र मृद्धटदृष्टान्तोऽनुपपन्नः । तत्रं द्रव्यैक्यात् । ब्रह्मणः प्रपञ्चस्य च स्त्ररूपैक्याभावात् । दार्ष्टान्ति- कांनुरोधेन 'मृदयं घट इत्यत्र यथा मृदुव्याप्तिघंटे दृश्यते' इति व्याप्त्युक्तिरसङ्गता | व्याप्य व्यापकभावस्य विभिन्नद्रव्यद्वयवृत्तित्वात् । यत्त ओपचारिकमिदमनन्यत्वमिति मणिदीपिकायामुक्तं, तेन मुख्यमनन्यत्वं नाम्तोति स्कुटमा वेद्यते । परन्तु औपचारिकेण किं नः प्रया- जनम् । सर्वं खल्विदं ब्रह्मेत्यादिसामानाधिकरण्यनिर्वाहाय मुख्यं हि अनुबन्धः