पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 27 ) अस्वरस एव । ‘अधिकं -तु’ इति ’प्रथमान्ततयैव हि ब्रह्मोपस्थितिः । तस्येह द्वितीयान्ततया विपरिणामः क्रियत इयेकोऽस्वरसः । ब्रह्म कारणं भवत्येव । सर्वशक्तयु पेतत्वादिति साक्षात् हेतुप्रतिपादकं सूत्रं प्रचम् । समां शक्तिः ब्रह्म आश्रिता । अतः सर्वशक्तियुक्तस्वात ब्रह्म कारणमिति अनपेक्षितमर्थं प्रथममुक्त्वा ततः परं अपेक्षितो हेतुः कल्पनय इत्यपरोऽस्वरसः । ‘यतोऽतो ब्रह्मणस्तस्तु सर्गाद्य ' इत्येत भावशक्तयः दनुसारेण, श्रभाष्यरीत्या ‘आरमनि चैवं विचित्राश्च हि’इत्यस्मिन् सूत्रे ‘विचित्राश्च' इत्येतदनुसारेण च सर्वाभिः शक्तिभिरुपेतेति शक्ति बहुत्ववक्षा ‘सर्वा’ इति पृथक्पदत्वे न घटत इत्यन्योऽस्वरसः। उपपन्नत्वात् ऐकपद्ये । श्रीभ ष्यकारा आश्रयन्ति । न गतानुगत करवत् । अन्यथा स्वप्राक्तनग्रन्थान्तरोक्तमर्थं गतानुगतिकतयैव शङ्कर आहेति कुतो न स्यात् । यत्तु सर्वप्रपञ्चोपेता मायेति अथोन्तरं व्यङ्ग य मभिप्रेतमिति तदस्य केवलं कल्पनामात्रम् । ज्ञापकलेशस्यापि विरहात् । प्रत्युत बाधकसत्वाच्च । ब्रह्मकारणत्वसमर्थनपरं हि प्रकरणम् । तत्र सर्वकार्योपेता मायैव न व्रवृति प्रतिपादने ‘ तत्र कारणमेव न भवतीति । पूर्वपक्ष एव स्थापितः स्यात् । चञ्च ज्ञानेच्छादीनां प्रकृत्युपादनकवाभा वात् प्रकृतिः सर्वकार्योपेतेत्यर्थान्तरविवक्षा न सम्भवतीति, तदपि न । चेतनाचेतनभेदेन द्विविधत्वत् प्रकृते: । गीतं हि ‘अबरेयमितस्त्वन्यां । प्रकृति विद्धि मे पराम्’ इति । यदपि ब्रह्मरूपकार्यादौ विकल्पप्रसराप्रति क्षेपे इति तद दैतेऽपि समानम् । विबर्ताधिष्ठानस्यं कृत्स्नस्य वा ब्रह्मणः तदेकदेशस्य वेति । विचित्रशक्तयोगात् परिहारः उभयत्र तुल्यः। अथ या न तुल्यः। निर्विशेपस्य शक्तिमत्वायगात्। अथ यदस्य सर्वस्य दुर्लखनस्य मृतं देवतेति स्त्रीलिङ्गपस्थितिरिह नास्तीति, तदप्यसत् । सदेव सोम्येत्येतत् बुद्धौ कृत्वा ‘अधिकं तु भेदनिर्देशन्’ इति नपुंसकलिङ्गप्रयोगः । क्रुरनैकदेशविकल्पेन कृतस्य