४८ ] अनुवन्धः ३५५ डस्य | 'अत्र निर्वचनं 'आहार सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः' इस्येवंरूपं भाष्यकारेण प्रदर्शित मिति श्रीभाष्यार्थ इति व्यायानुरभि- मायः । “अत्र निर्वचनं भाष्यकारेणोदाहृतं "आहारशुद्धौ...” इति” इति वक्तव्ये 'भाष्यकारेगोदाहृतं' इत्येतदिहानुक्तवानपि “निर्वचनं च स्मार्तमुदाहृतं भाष्यकारेण इत्युपर भाष्यकार निर्देशेनैव सर्वत्र भाष्य- कारोदाहृतत्वं ज्ञापयामास श्रीभाष्यकार इत्युक्तं भवति । यदपि "पञ्चमहायज्ञाद्यनुष्ठान शक्तित: क्रिया' इति क्रियास्वरूप- कथनानन्तरं 'क्रियाव.नेप ब्रह्मविदां वरिष्ठः' 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिपन्ति यज्ञेन दानेन तपसाऽनाशकेन इति तन्निर्वचनोदा- हरणमसमञ्जसम्। 'ब्रह्मविदां वरिष्ठः' इति हि तत्त्वज्ञानी उक्तः न तूपासकः । तस्य च पायज्ञ अनुष्ठान सम्भवति । ज्ञानकर्मसमु- चयनिषेधात् । विविदिषन्तीत्यत्र च वेदनं तत्त्वज्ञानं, न तूपासनम " इनि, तद्विदुषां विस्मयावहम् | वादमार्गे जनुषान्धत्वप्रकाशनात् । उपा- सनःतिरिक्तं वेदनं परममुक्ति साधनामात श्रीशङ्करः | नेति भगवद्रामा- नुजः । अत्रायं 'वेदनमुपासनं स्यात् तद्विपये श्रवणात्' इत्यादिवाक्य- वचनमुदाहृत्य यत्र यत्र मुक्तच पायतया वेदनं श्रूयते तत्रतत्र तद्वेदनमु- पालनात्मकमेवेति वाक्यकारांसद्धान्तमुक्त्वा तद्हडीकरणाय 'वाक़्य- कारश्च ध्रुवानुस्मृतेः विवेकादिभ्य एव निष्पत्तिमाह--तलब्दि॰रित्युपक्रम्य वाक्यकारवचनमुपन्यस्यति । तत्र 'क्रियावानेष ब्रह्मविदां वरिष्ठः' इत्यत्र ब्रह्मवेदनं उपासनात्मकमेव वाक्यकारमते | वेदनमुपासनं स्यादिति तैन सिद्धान्तितत्वात् । एवमेव विविदिषन्तीत्यत्रापि । एवं पञ्चमहायज्ञा- दिक्रियाङ्गकोपासनात्मकमेव मुक्तयपायतवा वेदान्तांवहितं वेदनभिति वाक्यकारादिसिद्धान्तस्थितेः तविरुद्धः शङ्करः केवल ज्ञानवादोऽप्रामा- णिकः प्रामाणिकैरुपेक्षगीय इति समञ्जसं निरूपणे क्रियमाणे शङ्करमत- विरुद्धत्वात् न तद्वाक्यकारमन मिति प्रत्यवतिष्ठमानस्य किती बुद्धि- 1
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४६८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति