( 23 ) परिणामाक्षेपस्य परिहाराय शक्तिमत्त्वे वक्तव्ये, न सर्वकार्यकरणसाम- थ्र्यमात्ररूपा शक्तिः अपि तु परिणामोपपादकचेतनाचेतनात्मिकाऽपि शक्तिर्वक्तव्येति स्थिते तत्प्रमापकस्य 'हन्तेमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य' इति वाक्यस्योपस्थितौ, तत्रोपक्रमे ‘सेयं देव क्षत’ इति परस्य ब्रह्मणः देवतात्वेनैव कीर्तनात् तद्विशेषए त्वमभिप्रेत्य सर्वोपेतेति स्त्रीलिङ्गादरणत् । एवमस्मिन् प्रकरणे सद्वि द्यावयं सूत्र कारबुद्धौ विपरियतत इति व्यञ्जनायैव इतरव्यपदेशाधिकरणे ‘अनेन जीवेनात्मनाऽनु-विश्य नामरूपे व्याकरवाणि' इति च ‘परा देवता?” इति सूत्रभाष्ये देवतात्वेन परस्य ब्रह्मणो निर्देश इति । दोषान्तरमाह । पाञ्चरात्राधिकरणे चरमसूत्रे विप्रतिषेधादिति पदस्य विस्मरणशब्दस्य स्मरण इव प्रतिषेधे शक्तिर्नास्तीति गौणी लक्षण वा क्लिष्टा जघन्यवृत्तिराश्रितेति । नायं दोषोऽस्ति । विनिपातशब्दस्य निपान इव विनिवृत्तिशब्दस्य निवृत्तविव विज्ञानशब्दस्य ज्ञान इव च प्रकृते शक्तिसद्भावात् । विस्मरणशब्दस्य कश्चिदपि विशिष्टम्मरणे प्रयोगाभावात् न स्मरणार्थत्वम् । वीक्षणपदस्य ईक्षण इव विप्रतिषेध पदस्य प्रतिषेधे अस्ति प्रयागः। यथा आपस्तम्बधर्मसूत्रे ‘बुद्धे क्षेम- प्रापणं तच्छस्त्रैर्बिप्रतिषिद्धम’ इति । किञ्च यौगिकानां पदानां अर्थ विशेषे प्रयोगप्राचुर्ये सत्यपि योगार्थविवक्षयैव प्रौढग्रन्थकाराः तानि पदानि प्रयुञ्जते । यथा कालिदासः ‘छायाविनीताध्वपरिश्रमेषु' इति विनीतपदं अपनीतायै । 'अनिग्रहत्रासबिनीतसत्त्वम’ स्वाभाविकं विनी- तत्वम्’ इति प्रसिद्ध विनयार्थं प्रयुञ्जन एव सः उक्तरीत्या अपनयना- थेऽपि तत् पदं प्रयुक्तवान् । एवं ‘विरक्तसन्ध्याकपिशं पुरस्तात्’ इति वैराग्यार्थं प्रसिद्धं विरक्तपदं अतिरक्तार्थे प्रयुङ्क्ते। न चात्र जघन्यवृत्तिः । रूढिमात्रस्य निरूढलक्षणामात्रस्य वा परित्यागात् । योगार्थस्य अभिध यैव प्रतीतेः । !
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति