३५८ विशिष्टाद्वैतसिद्धिः न ब्रूतः । नापि व्यञ्जयतः । प्रत्युन श्रीभाष्यवाक्याभ्यूहं कुर्वन्तौ तदृद्रष्टृतामेव ख्याभ्यतः। एवं सति ताभ्यां तदर्शित्वमात्मन उत्तमिव कृत्वा तद् बहुकृत्य ततः स्वसामर्थ्येन तव्यतिरेकः उपलब्धः, लोकाय प्रदर्शितश्चेति मन्यमानः शास्त्री स्वभ्रान्तिसिद्धचार विद्रावणप्रहृष्टो बाल इव अथवा उन्मत्त इव विकत्यमानो नृत्यति । ५०. पूर्वोत्तरवत श्रौतनिर्वचनं अनुदाहृत्य स्मार्तं कुत उदाहृत भाष्यकारणेति चेत् तत्र हेतुमाह व्यासार्थ:- अथ मुनिरिति श्रौतं निर्वचनम् | तस्य न्यायोपन्याससापेक्षत्वेन सहकार्यन्तरविधिरित्यधिकरणे व्याख्येयत्वात् स्मार्तनिर्वाचनस्य स्पष्टार्थत्वाञ्च स्मार्तीनर्थंचनमुदाहृतम् । इति । अत्र सुस्फुटं प्रतीयमानमपि भावं ग्रहीतुमक्षमः 'अत्र वदामः ! सहकार्यन्तरविधिरित्यधिकरणे केन व्याख्येयत्वमभिमतम्' इत्युपक्रम्य गम्भीरमिव अत्यन्तमसमञ्चसं किञ्चिदाह | अथ मुनिरित्येतत् स्वार्थ वैशद्याय न्यायोत्न्यःसंताम् । अत एव तत् सहकार्यन्तर विध्यधिकर भगवता वादरायणेन व्याख्येयं भवति । अत्र उदाहरणाईतया स्वष्टार्थ न भवतीति यावत् । तथा च श्रौतनिवचनस्यास्पष्टार्थत्वात् स्मार्तनिवेच- नस्य न्यायोपन्यासनिरपेक्षतया स्पष्टार्थत्वाच श्रौतनिर्वचनं ब्रह्मनन्दिनो- दाहृतं विहाय, अथवा स्वयं पूर्वोत्तरवत् श्रौतमनुदाहृत्य स्मार्त नुदाहृत.. मिति ग्रन्थार्थः । अत्र केन किं वक्तुं शक्यम् ? ५१. ब्रह्मनन्दिनो वाक्यमन्थमिव इमिडाचार्यस्य भाष्यग्रन्थमित्र च एतद्भाष्यविवरणरूपां वामनटीकामपि व्यासार्यः श्रीदेशिका कीर्त यतः । अत्र शास्त्री यथाशीलं असम्बद्धमेव बहु साटोपमाह | "अत्र सुदर्शनेन वेङ्कटनाथेन च वामनटीकेति कावन द्रमिडभाष्यटीकानि स्वयं दृष्टेति घुष्यते । का नामेयं वामनटीका ? किं गुददेवकृतीकातो भिन्ना उत सैव ?” इत्यादि । उपरि च 'परेषां गुहदेवटीका वामनटीकेत्यादयः
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४७१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति