पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१ अनुबन्धः ३५६ अप्रसिद्ध अपि ग्रन्था उपलभ्यन्ते' इत्यादि । नूनमन्धः संवृत्तः शास्त्री, येन स्फुटं प्रकाशमानमर्थं यथावन्न पश्यति । श्रुतप्रकाशिकायां “ब्रह्मण्युपनिषण्णेत्युपनिषत् | उपनिषदो दिन हि वाक्यम् । 'गहने हीयं विद्या सन्निविष्टा' इति तद्विषयं द्रमिडभा ध्यम । 'गहने ब्रह्मण्युपनिपगा' इति भाष्यविपया वामनटीका ।" इत्युक्तं दृश्यते । तत्त्त्रटीकायामपि ईदृश्येवोक्तिः । अत्र किं वमनटीका' स्वयं दृष्टेति चोपो वर्तने ? प्रसिद्ध ग्रन्था उपलब्ध इति किं सूचन पाते। सम्बकभाषणदीक्षां कृत्वा विदुषां शिरश्शून जनन- संरम्भं कुतोऽयं वहतीति न विद्मः । “उपनिपण्णं वा अस्त्रां परं श्रेय इत्युपनिपत्" इति शङ्करोक्तिं दृष्ट्वा कदाचिन् श्रुतप्रकाशिकाकारः तत्समानार्थकं वाक्यग्रन्थमभ्यूह्य द्रमिड- साध्यवाक्यवामनटीका वाक्यद्वयमपि कल्पयित्वा व्यवहृतवान् स्यात् " इति तर्क्ष्यत इत्यत्यन्तपामरदुर्जनसरणिमाश्रित्य निश्शङ्कं लिखति । ननु लोऽयं तर्कः ? श्रुतप्रकाशिकावचनान् द्रमिडभाव्यस्य बामनटीका चिदिति ग्रहणे काऽनुपपत्तिः । द्रमिडभाष्यस्य या काऽपि टीका नासीदिति किं कुर्ताश्चद्ववृतम् | अनुपलम्भान्नासीदिति चेत् वाक्यद्रम- भाष्ययोरप्यनुपलम्भः समानः । अस्माकमिदानीमनुपलम्भेऽपि ग्रामप्रन्थेषु तदुदाहरणात् तयोः स्थितत्वं ज्ञायत इति चेन् इदमपि तुल्यम् | वाक्यद्रमिडभाध्ये श्रीसुदर्शनरिणा स्वयं साक्षान्न दृष्टे । तेन वामनटीकाऽपि तेन दृष्टा भवितु नार्हतीति चेत् काममेवमस्तु । तथापि इमानि वाक्यानि तेन स्वयं कल्पितानीति वादस्य कोऽवकाशः | तेन्द्रः षु प्राचीनग्रन्थेषु केषुचित् इमानि ब्रह्मनन्द्यादिवाक्यानि उदाहृता- न्यासन् | तान्येवायमुदाजहार । एवं ऋजुमार्गेण उपपत्तौ सम्भवन्त्यां अनार्यपद्धतिमनुसृत्य कल्पकत्वं तस्य कुतः कल्प्यते । श्रीमन्निगान्त- महादेशिक कालावधि स्थिताः न्यायतत्त्वं, प्रमेयसङ्ग्रहः तत्त्वरत्नाकरः,