पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ विशिष्टाद्वैत सिद्धिः [ ५३ यत्त व्यासवन्दनं कुतो न कृतमिति तत् व्यासस्य साक्षात्परब्रह्म- भूर्तावष्णुरूपत्वात् तद्वन्दनेनैव एतद्वन्दनस्यापि सिद्धन्वनिप्रायः दिति समाधेयम् | व्यासाय विष्णुरूपायेति हि स्थितिः । यच्च जैमिनेर्ब्रह्मसूत्रा सम्बन्धिनः कुतो नमनमिति । तेन अत्यन्तानभिज्ञता केवलं प्रकाश्यते । वेदान्तेषु ब्रह्मतत्सम्बन्धिविषयविशेपावधारणमात्रोपयोगिनो हि न्यायाः भगवता बादरायणेन ब्रह्मसूत्रेषु निबद्धाः । वैदिकपदार्थवाक्यार्थावधार- गोपयोगिनस्तु न्याया जैमिनिना निबद्धाः । ते यथा कर्मभागेन तथा ब्रह्म- भागेन.पि अत्यन्तं सम्बद्धाः । अत एव हि सूत्रकारेण भाष्यकारैः व्या- ख्यातृभिश्च इमे न्यायाः पदे पदे उपजीव्यन्ते । तदत्र जैमिनेर्ब्रह्मसूत्रा- सम्बन्धित्वाभिधानं पण्डितस्य न गौरवावहम् । सुसम्बन्धित्वं नमनवाक्य एव 'वेद सम्पुटनिगूढविष्फारयित्रे न्यायप्रज्वलितचेतसे' इत्याभ्यां पदाभ्यां सुव्यञ्जितम् । सर्वोऽपे हि वेदान्तो वेद एव | तदर्थावधारणोपयुक्ताच न्याया जैमिन्युपज्ञानि । अान्दोग्यविवरणप्रवृत्तो जैमिनं प्रणम- तीति सुश्लिष्टमेतत् । अथ कथं द्रमिडभाष्यमङ्गलस्य मीमांसान्यायकोशे दर्शन मिति चेत् सत्यमयं प्रश्नः समाधेयः | समाधानं चेदम् । इदानीं रक्ष्यमाणस्य तन्मूल- भूतस्य वा पुस्तऋस्य ये लेखकाः ने श्रुनप्रकाशिकादिषु पठितमिदं मङ्गलं श्रुत्वा तद्रामणीयकेन आकृष्टाः तस्याविस्मरणाय अस्य पुस्तकस्य प्रथमे पत्रे लेखनमकुर्वन्। अकवा | इदंत आदौ दृश्यते । 'नमः प्रवर' 'नमो जैमिनये' इत्यनयोर्मध्ये दृश्यमान : 'नित्यांदार' इति श्लोकोऽपि अन्यस्यैव यस्य कस्यचित् तत्र लिखितः । नायं द्रमिडभाष्य- कारस्य | नापि कोशकारस्य | ब्रह्मविषयतया जैमिनिबन्दनवाक्यात् पूर्वं लिखितः । किञ्चायं मीमांसान्यायकोशकारः ख्यातिविचारे ‘तस्मान्निविषयत्वख्यातिरेव भ्रान्तिः । इयमेव ख्यातिः ब्रह्मन- न्दिद्र मिडाचार्याभ्यां स्वीकृता'