५३ ] अनुबन्धः ३६३ इति वदति । अनेनायं वायभाष्योभयदर्शीति ज्ञायते । एवं च द्रमिड- भाष्यारम्भस्थं मङ्गलं स्वत्रन्थे स्वयमेव निर्वाशनवानित्यपि युक्तम् । सा हि रमणीया रचना कस्य मनां न कर्पेत् । - ५३. सेश्वरमामांसायां श्रीदेशि: चरणैः “उमयाभिप्रायवेदी भग- वान् बोधायनः त्रिंशतिलक्षणीं मीमांसां परस्परसङ्गमार्थं विस्तरेण व्याख्य- दिति वृद्धा विदामासुः इति यदुक्तं तत्रायमाह - वितथैतिह्यवर्शन- मिदम । वस्तुतस्तु बोधायनः ब्रह्मसूत्रवृत्तिमेव कृतवनियुक्तं रामानुजा. र्येण । ‘भगवद्द्बोधण्यनकृतां विस्तीर्णा ब्रह्ममूत्रवृत्तिं पूर्वाचायोः सञ्चि- क्षिपुः' इत्येव किलरामानुज्ञार्थो वदति - इति । अपमापणे चक्षुरन्धं भवदति दैवदण्डो वा, शतं दाप्च इति राजदण्डो वा यदि स्यात् नून- मीदृशं पांण्डतनामधारी यः कोऽपि न भाषेत । बोधायनङ्कृतां ब्रह्मसूत्र- वृत्तिमित्यनेन बोधायनः ब्रह्मसूत्रवृत्तिमेव चकारेति ऋथं लभ्यते । नहि मैल्लिनाथकृतं रघुवंशव्याख्यानमेते अध्यापयतीत्युक्ते मल्लिनाथः रघुवंरा- व्याख्यानमेवाकरोदित्यर्थो भवेत् । अवशीर्ष तिष्ठनाऽपि श्रीमनाथो- क्तस्य ऐतिह्यस्य अप्रामाण्यमापादचितुमशक्यमिति दृढं गृह्णातु भवान् । ५४. प्रतिवादिभयङ्करस्वामिनोऽपि स भगवान् महर्षिः बोधा- यनो ब्रह्ममीमांसाशास्त्रस्य सुविस्तृतां वृत्तिं कुर्वन्' इति वदतः सूत्रान्तर- वृत्तिकरणव्यवच्छेदे नैव तात्पर्यम् । भगवद्बोधायनकृतामिति श्रीभाष्यो- क्तिप्रतिपन्नार्थानुवादमात्रे तात्पर्यात् । शावरे उपवर्ष कीर्तनेन पूर्वक एड- वृत्तिकर्तृत्वं तस्य स्फुटमत्रगतमिति विंशतिलक्षणीवृत्तिकारत्वेन तस्य शः । ५५. बोधायनमहर्षिकृता विंशतिलक्षणीवृत्तिर्वा ब्रह्मसूत्रमात्रवृत्तिर्वा नैवासीत् । विशिष्ट तिनां कल्पनामात्र सिद्धा सेति स्थापने संरभमाणः बहु लिखति । तत्रोपवर्षवृत्तिरासीदिति सर्वाभ्युपगतत्वात् बोधायनस्योप- वर्षादनन्यत्वे बोधायनवृत्तिसत्तासि चोदिति बिभ्यत् प्रथमं तस्य तद्-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४७६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति