पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 29 ) ‘अनुकृतेस्तस्य च" इति दहराधिकरण/सूत्रश्रीभाष्ये सविस्तरं दोषमाह । इदं, श्रीभाष्यभावं श्रुतप्रकाशिकास्पष्टोक्तिं च अनवहितवतो दीक्षितस्य केवलं भ्रममूलमिति भावप्रकाशिकायां स्पष्टम् । सूत्र ६इराः काशपरामर्श तच्छब्दः कर्मणि षष्ठयन्त इति श्रीभाष्यम् । जीवपरामर्श कर्तरि षष्यन्त इति शैवभाष्यम् । दहराकाशानुकारः केनेत्यत्र जीवेने त्यौलभ्यं पूर्वत्र । जीवकर्तुं कानुकारः किङ्कर्मक इत्यत्र दहराकाशकर्मक इत्यर्थलभ्यमुत्तरत्र । इदमत्र बोध्यम् । विस्मरणमित्यत्र उपसर्गः न स्मरणे ऽन्वेति । अधि तु स्थानिनि गमने । विगतं स्मरणं विस्मरण मिति । अतो विस्मरणपदस्य स्मरणर्थकस्वं न भवति । विज्ञानादिप देषु पुनः श्रुतधात्वर्थ एवान्वयः । अतो विशिष्टं ज्ञानमित्यादिरर्थों भवति । न चात्रापि अश्रुते शिणधातावेवान्वय इति वाच्यम् । तथापि श्रुतधात्वर्थगतविशेषबोधकत्वेन तन्निवृत्तिबोधकत्वाभावात् । ईदृश एव विप्रतिषेध इत्यत्र व्युपसर्गाः। न ह्यत्र विगतः प्रतिषेधो बोध्यते । अपि तु विशिष्टप्रतिषेध एव । स विशेषः परस्परप्रतियोगिकवरूपः । शीतं स्वस मानाधिकरणमुष्णं प्रतिषेधति । एवमुष्णं स्वसमानाधिकरणं शस्तिं प्रति बेधति । अतोऽनयोर्विप्रतिषेधः । अयमेव अनयोर्विरोध इत्युच्यते । न तु विरोधत्वावच्छिन्ने विप्रतिषेधशब्दस्य शक्तिः । यौगिकशब्दत्वात् । असामानाधिकरण्यवध्यधातुकभावादिरूपस्य विरोधस्य पर्यवसानगत्या लभ्यत्वाच्च । साद्भयमते पुरुषगतभोक्तृत्वनिविकारत्वयोरपि ईदृश एव विप्रतिषेधः । भोक्यं निर्विकारत्वं प्रतिषेधति । इदं नैवस्तीति प्रतीतिं जनयतीत्यर्थः । एवं निर्विकारत्वं भोक्तत्वं प्रतिषेधतीति । तच्छस्त्रै विप्रतिषिद्धमित्यत्र आत्यन्तिकत्वं विशेषः । शास्त्रैः अत्यन्तं प्रतिषिद्ध मित्यर्थः । पाञ्चरात्राधिकरणसूत्रे यस्मिन् तन्त्रे जीवस्योत्पत्तिरुकेति पूर्वपक्षिणा उच्यते तस्मिन्नेव विद्यमानत्वं प्रतिषेधस्य विशेषः । ‘तस्मि अपि सन्त्रे’ इत्यनेन श्रीभाष्ये इदं व्यजितम् । अतो विस्मरणमेद्देन