पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ विशिष्टाद्वैतसिद्धिः [ ५६ करणत्वेनैव प्रसिद्धःवाच्चे”ति चदुच्यते तद् बालभापितम् । पूर्वं “चतु- भिर्वेदैरङ्गश्च पड्भिः” इत्याह कविः । तत्र किं वेदान्तभागवर्जमेव चत्वारो वेदा विवक्षिताः । विदेदनिनिविष्टः । तत्र नास्माभि- रुत्तरं वक्तव्यम् । विद्वत्कुलपरिहास एव तं प्रतियोववन्तं करिष्यति । महावैयाकरणत्वप्रसिद्धिः किं तेषां वेदान्तविग्रामत्वे तदध्येतृत्वे च विरुष्यते | 'ब्रह्मणा वाव सर्वे वेदा महीयन्ते' 'सर्व वेदा यत्पद्मामनन्ति' 'वेदैश्च सर्वैरहमेव वेद्यः' 'स ब्रह्मविद्यां सर्वविद्याप्रतिष्टां' इत्यादिभिः प्रतिपाद्यं महान्तमर्थं मनसि निधाय प्रथमं चतुर्भिर्वैरिति निर्दिष्टानेव वेदान् पुनः ब्रह्मविद्यात्वेनकवः रसमयं भावं ग्रहीतुमनु- भवितु' च 'दम्भो दनिगम क्रोधः पारुष्यमेव च । अज्ञानं च इति भगवदुक्तां आसुरी सम्पदमभिजातस्यास्य नास्नि प्रसङ्गः । पूर्वं व्याडिवाक्चे उपवर्ष इत्येवोक्तम | उपरि च उपवर्प इत्येव प्रोच्यते । मध्ये परं बोधायन इति विक्षरानामकरणम्य श्रोतुः पूर्वापरानुसन्धानवतः कोऽयमिति संशयावहस्य प्रसक्तिर्नास्ति । इति यदुच्यते तन् स्थूलदृष्टेः कविहृदयानभिज्ञता निबन्धनम् । कविहि प्रथमं वररुचिं नाम सुतमसून' इति, उपर्येपि 'तेनैव वररुचिमुखेन' इति वररुचि नाम निर्दिशन्नपि मध्ये 'श्रुतवरमादाय' इत. 'एकेन कात्यायनः ' इति च वररुचिमेव श्रुतवरेत कात्यायनेति द्वाभ्यां नामान्तराभ्यां निर्दिशति । वररुचेः एवमपि द्वे नाम्नी आस्तामिति स्पष्टोक्ति कवि मार्गाननुरूपामाकलय्य वक्रमार्गेण तद्व्यञ्जयति । एवमेव उपवर्षस्य बोधायन इति नामान्तरमासीदिति व्यञ्जनायात्र बोधायननामनिर्देशः एतद्वष्टम्भेनैव ‘वृत्तिकारस्य बोधायनम्यैव ह्युपवर्प इति स्यान्नाम’ इति तत्त्वटीकायामुच्यते । कवितार्किकसिंहो हि स्वकालविद्यमानसर्वग्रन्थ- दर्शी । 'नामूलं लिख्यते किञ्चित् इति च प्राचां व्रतम् । अथ यत् ' बोधाय, नः, इति पदद्वये एक पदत्वभ्रान्तिः परेषाम'