३७४ विशिष्टाद्वैतसिद्धिः [ ६४ कौचित् । एवं सति कृतकोटिरेच बांधायनः स एव चोपवर्ष इति कथं भवेत्, इति पृच्छति । अयं भ्रान्तः | यदुक्तं तन्त्रान्तरप्रकरणे. पाराशर्यकृतकोटी निदिष्ट विति तन्नास्ति । 'तेनेहापि तावत् प्रत्यक्षा- नन्तरमनुमानमुत्तम्' इत्यनेन तत्प्रकरणस्य समानत्वात् । " ततो महा- विषयतया प्रकृतत्वेन पुरुषार्थीपवित्वेन च शास्त्रम्” इत्यत्र क्रमे तन्त्रा- न्तरानुसारस्याभावादनुक्तत्वाच्च । महाविषयतया प्रकृतत्वं हि 'चोदना- लक्ष गोऽर्थो धर्मः' इति सूत्रोक्तलक्षरगघटकतया उपस्थितत्वमभिप्रेत्यो- च्यते । न्यायविस्तरे अनुमानानन्त मेवोपम ननिरुपलाचदनुसारोक्तिरत्र न सम्भवति च । शब्दानन्तरं उपमाननिरूपणे तन्त्रान्तरप्रसिद्धिः पुनर्हेतुतयोक्ता – 'तदनन्तरं च यत्रक्वचन वाच्ये बहूनां प्रसिद्धमित्यु- पमानमुत्तम्। न्यायविस्तरे हि प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमान- मित्युक्तम्' इति । इति बहूनां, न केवलमस्मदोयानां, अपितु परेपाम- पीत्यर्थः । शब्दोपमानयोः अत्र अदृतस्य क्रमस्य तन्त्रान्तरसिद्धत्वा- भावेऽपि स्वरूपतस्तावत् इमे द्वे अपि तत्र प्रसिद्धे एव । अर्थापत्तिस्तु स्वरूपतोऽपि तत्र न प्रसिद्धा | न हि चतुर्भ्योऽधिक प्रमाण वादिनः तन्त्रा- न्तरकाराः केचन सन्ति । अतः स्वकीय एव तन्त्रे प्राचीनेषु ग्रन्थेषु प्रसि- द्धत्वमाह—ततः पाराशर्यमतेनार्थापत्तिरुक्ता' इति । पाराशर्येातिरिक्त- प्रमाणतया अङ्गीकृता या अर्थापत्तिः सा उपमानादनन्तरं भाष्यकारेगो- तेत्यर्थः । पाराशर्यो व्यास इति सर्वविदितम् । अर्थात् पाराशर्य- सम्मतत्त्वे उपमानानन्तर्ये च कि मानमित्यत्राह – 'तदुत्तरकालमेव तन्मतानुसारिणा कृतकोटिनोक्तत्वात् ', इति । उपमाननिरूपणान ‘अर्थापत्तिरपि प्रमाणमिति भगवान् पाराशर्यः' इत्येवमर्थकं किञ्चिदुक्त्वा तन्निरूपणं कृतकोटिना कृतम् । अतः भाष्यकारेण वृत्तिकार मतानुसार- विवरणावसरे तथैव कृतमित्यर्थः । एवमभावोऽपि कृतकोटिग्रन्थोक्तत्वा- देव भाष्यकारेणोक्त इति सुचरितमिश्रस्याभिप्रायः । मणिमेखलोक्तिमनु- -
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४८७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति