६५ ] अनुबन्धः ३७३. सृत्य सम्भवैतिह्य अपि कृतकोटिना पृथक्प्रमाणतया अङ्गीकृते इति, भाध्ये तयोरनुक्तेः शबरस्वामी नाङ्गीचकारेति च ज्ञायते । अत्र भाष्य- काराभिप्रायमाह वातिंककारः - इह भवति शतादौ सम्भवाद् या सहस्रा- न्मतिरवियुतिभावात् साऽनुमानाद भिन्ना | भवति बहु न सत्यं नित्य मैतिह्ययुक्तं भवति तु यदि सत्यं नागमाद् भियते तत् ॥ इति । एवं प्रत्यक्षशब्दभिःनि तन्त्रान्तरानुसारे-- ऐत्युक्त्वा तदनुसरणस्य प्रयोजनमाह - किं पुनरित्यादिना । अत्र तन्त्रा- न्तरेत्येतत् समानतन्त्रग्रन्थान्तरस्याप्युपलक्षणम् । उपपत्तेरुक्तत्वात् । अन्यथा ग्रन्थकारस्य शून्यहृदयत्वापत्तेः | तस्मात् मीमांसाग्रन्थकारः कश्चिन् कृतकोटिनामाऽभवदित्यत्र काशिका प्रमाणं भवत्येव । ६५. प्रपञ्चहृदये मीमांसाशास्त्रस्य पूर्ववृत्तं सुस्पष्टमुच्यते । तत्र विंशत्यध्याय निबद्धस्य मीमांसाशास्त्रस्य कृतकोटिनामधेयं भाष्यं बोधायनेन कृतम् । तद् ग्रन्थबाहुल्यभयात् उपेक्ष्य किञ्चित् संक्षिप्तं उपवर्षेण कृतम् । इति कृत्स्नमीमांसाशास्त्रव्याख्यातृत्वं बोधायनस्य सन्देहगन्धलवलेशाना- स्पदसुविशद सुनिश्चितार्थैरक्षरैरावेद्यते । वृद्धा विदामासुरिति यत् श्रीदेशिकचरणैरुक्तं तद्नेन सत्यापितं भवति । अत्राप्रामाण्यं वक्तु- अयुक्त: पाठान्तरं शरणीकृत्य किचिदाह । 'कृतकोटिना भाष्यं बोधाय- नेन कृतम्' इति पुस्तके अस्तात् पाठान्तरं दर्श्यते । उपरितनपाठे भाध्यस्य नाम कृतकोटीति | अन्यत्र कतुर्बोधायनस्य नाम | तथा च सन्देहापादक्रपाठभेदूषितं प्रपञ्चहृदयभिमप्रमाणमित्याइ । ननु कृत. कोटिनामकत्वं कर्तुर्वा ग्रन्थस्य वेति कामं सन्देहोऽस्तु | मीमांसाशास्त्रस्य कृत्स्नस्य व्याख्याता बोधायन इत्यत्र तु न सन्देहगन्धः । कृतकोठिनाम-
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४८८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति