( 30 ) स्मरणाभाव इव विप्रतिषेघपदेन न कश्चित् प्रतिषेधाभावो बोध्यते । अपि तु सर्वत्र प्रतिषेधे प्रतीयमाने विशेषः कश्चन बोध्यत इति नैव क्लिष्टा काचन वृत्तिरासितेति । श्रीकण्ठ एव ‘विप्रतिषेधान्’ इति सूत्रस्य ‘विशेषेणास्य प्रतिषेधो दृश्यते’ इति विवरणं करोति । तत्र दीक्षित एव “विप्रतिषेधादिति सूत्रस्य निषेधादित्यर्थमभिप्रेत्य’ इत्याह । इयं स्वयं प्रतिषेधार्थवं वदन् श्रीकण्ठः तमर्थं वदद्भिः प्राचीनभाष्यकारैः सूत्रस्य कलुषितवं कथमभि प्रेतबान् भवेत् । “निषेधान्” इयर्थमभिप्रेस्य" इत्यनेन इतः पूर्वं अर्था न्तरमभिप्रैति श्रीकण्ठ इति व्यखयति । तत्तु नास्ति । तत्रापि विशेषेण प्रतिषेधस्यैव तेन विवक्षणात् । विरोधार्थस्य वेद विरुद्धेति विशेषणेनैवो क्तत्वेन विरोधादित्यर्थस्य तत्रासङ्गतत्वात् । अभिनिवेशातिशयकृत भ्रम व्याकुलतयैव अस्थाने दूषणसम्भ्रमी दीक्षित इति सुस्पष्टमतन् । उभयत्र दहराकाशकर्मकत्वं जीवकर्नूकरवं चाविशिष्टम् । दहराकाशो न जीवः इत्येव पूर्वसूत्रानुगुणाऽत्र प्रतिज्ञा । तथ1ऽपि इधमर्थलभ्येति कृत्वा श्रीभाष्ये भावविशेषन्यजनाय 'प्रजापतिवाक्य न तपाद्यः मुक्त बन्धः प्रत्यगात्मा न दहराकाशः” इति विपर्यस्ता IT प्र.तज्ञा दर्शिता । तत्र तस्य दहराकाशस्य परस्य ब्रह्मणः इति तच्छब्दार्थ उक्त अध्र तरकथनकुतूहलात् श्रीकण्ठः ‘तस्य जीवस्य' इत्याह । इत्थमत्र विशेषा- भावेऽपि श्रीभाष्यदूषणवैयग्रय दीक्षितस्य वेषमात्रमूल रुम् । तदधीन भ्रममूलकं च । वस्तुतोऽत्र यो दोषः श्रीभ|ध्ये उक्तः, स न तत्र, अपि तु एतदऋते श्रीकण्ठभष्य एव । तथा हि । अत्र हि दहराकाशं प्राप्तस्य पाप्मकार्यान्धत्वाद्यभावे सततोदितप्रकाशत्वे च प्राप्यस्य । दहरुकाश्स्य अपहतपाप्मवं...हेतु त्वेनोच्यते ।” इत्याह श्रीकण्ठः । एवं यदि कारणभूतं अपहतपाप्मरवा- दिकं प्राप्यस्य दहराकाशस्य, कार्यभूतं तत् प्रातुर्जीवस्य च स्वप्रकरण
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति